SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २८२२ - ३० ] प्रथम उद्देशः । ७९९ चिरमपि भविष्यति इति विचिन्त्य लोभाद् भूयांसि वस्त्राणि दत्त्वा प्रलोभयेत् । यस्तु तरुणः स विकार बहुल उत्कटमोहश्च भवति, संसृष्टः पूर्वोद्रामक:, 'भोक्ता' प्राक्तनो भर्त्ता, एतेषां हस्तादादीयमाने वस्त्रे शङ्कादय आत्मोभयसमुत्थाश्च दोषा भवन्ति ।। २८२६ ॥ दाहामो णं कस्स, नियया सो होहिई सहाओ णे । सन्नी वि संजयाणं, दाहि इति विष्परीणामे ॥ २८२७ ॥ 5 मातृ-पितृप्रभृतयः 'निजकाः' खजनाश्चिन्तयन्ति - य[स्य क ] स्याप्येनां वयं दास्यामः सः अस्माकं सहायो भविष्यति ; यस्तु 'संज्ञी' श्रावकः सोऽपि - एषा मे धर्म सहाया भविष्यति, अन्यच्च संयतानामेषा विपुलं भक्तपानं मदीये गृहे वर्त्तमाना दास्यति ; 'इति' एवं चिन्तयित्वा विपरिणामयेत्, विपरिणाम्य चोन्निष्क्रमणं कारयेत् । यत एवमत एतानि स्थानानि वर्जयित्वा यानि भावितकुलानि तेषु ग्रहीतव्यम् । भावितकुलानामभावे प्रतिषिद्धस्थानेष्वेव पश्चानुपूर्व्या गृह्णी- 10 यात्—प्रथमं यः सभोगिनीकः श्रावकस्तस्य सकाशाद् ग्रहीतव्यम्, तस्याभावेऽभोगिनी कश्रावकहस्तादपि, एवं प्रतीपक्रमेण तावद् वक्तव्यं यावद् भिक्षुकाणामभावे कापालिकानां सकाशादपि यतनया वस्त्रग्रहणं कर्त्तव्यम् || २८२७ ॥ यतनामेवाह-मग्गति थेरियाओ, लद्धं पि य थेरियाज गेव्हंति । आगार दट्टु तरुणीण व देंते तं न गिण्हंति ।। २८२८ ॥ याः स्थविरा धर्मश्रद्धालवो गीतार्थाश्च ता वस्त्राणि मार्गयन्ति । लब्धमपि च वस्त्रं दायकसकाशात् स्थविरा एव गृह्णन्ति । अथासौ दाता काणाक्षिप्रभृतीनाकारान् करोति, स्थविरया वा हस्ते प्रसारिते भणति - - तव न ददामि एतस्यास्तरुण्याः प्रयच्छामीति । एवमाकारान् दृष्ट्वा तरुणीनां वा ददतं दायकं विज्ञाय तद् वस्त्रं न गृह्णन्ति ।। २८२८ ॥ एवमादिदोषविप्रमुक्तं वस्त्रमुत्पाद्य वसतिं प्राप्तानामयं विधिः- , १ ये तु मातृ-पितृप्रभृतयो 'निजकाः' स्वजनास्ते चिन्तयन्ति - "णं" इति एनां संयत कस्यापि वयं दास्यामः, सः "णे" अस्माकं कां० ॥ सत्त दिवसे ठवित्ता, कप्पें कते थेरिया परिच्छंति । सुद्धस्स होइ धरणा, असुद्ध छेतुं परिवणा ।। २८२९ ॥ सप्त दिवसान् वस्त्रं स्थापयन्ति । यद्यस्थापयित्वा परिभुञ्जते तदा चत्वारो गुरव आज्ञादयश्च दोषाः । यत एवं ततः स्थापयित्वा कल्पं - - प्रक्षालनं कुर्वन्ति । कृते च कल्पे स्थविरास्तद् वस्त्रं प्रावृत्य परीक्षन्ते । यदि शुद्धं ततस्तस्य धारणम्, अथ 'अशुद्धम्' अशुद्धभावोत्पादकं तद् वस्त्रं 25 ततस्तत् छित्त्वा परिष्ठापनं कर्त्तव्यम् || २८२९ ॥ अथ वस्त्रोत्पादनविनिर्गतानां निर्मन्थानां निर्मन्थीनां च सामान्यतो लाभा -ऽलाभादिनिमित्तपरिज्ञानोपायमाह जं पुण पढमं वत्थं, चउकोणा तस्स होंति लाभाए । वितिरिच्छंता मज्झे, य गरहिया चउगुरू आणा ।। २८३० ॥ यत् पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारो कोणकास्ते वक्ष्यमाणाञ्जन- खञ्जनलेपादि - 30 चिह्नोपलक्षिता लाभाय भवन्ति, उपलक्षणमिदम् तेन यौ अञ्चलमध्यभागौ तावपि लाभाय Jain Education International 15 For Private & Personal Use Only 20 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy