________________
७९४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सू० ३८ साधूनां गृहिमिः सर्वारम्भप्रवृत्तैः 'धर्मार्थ' कुशलानुबन्धिपुण्योपार्जनाथ वस्त्र-पात्रादिकं यथायोग्यं दातव्यम् इति बुद्ध्या य उपासकादिर्वस्त्रेणोपनिमन्त्रयति तस्य ग्रहीतव्यमिति प्रक्रमः ॥ २८०९ ॥ तदेवं वस्त्रमुत्पन्नं यावद् गुरूणां समीपे न गम्यते तावत् कस्यावग्रहे भवति ? इति उच्यते5 संघाडए पविडे, रायणिए तह य ओमरायणिए ।
जं लब्भइ पाओग्गं, रायणिए उग्गहो होइ ॥ २८१० ॥ उपयोगकायोत्सर्ग कृत्वा भिक्षार्थ सङ्घाटकः प्रविष्टः, तत्रैको रानिको द्वितीयोऽवमरालिकः। तत्र च यत् प्रायोम्यं सङ्घाटकेन लभ्यते तद् यावदाचार्यपादमूलं न गम्यते तावत् सर्वं 'रानि. कस्य' ज्येष्ठार्यस्याक्ग्रहो भवति, ज्येष्ठार्यस्तस्य स्वामीति भावः ॥ २८१० ॥ अथ यदुक्तम्-- 10 "कप्पइ से सागारकडं गहाय दोचं पि उग्गहं अणुन्नवित्ता परिहारं परिहरित्तए" (उ०१ सू० ३८) तदेतद् यथा केचिदाचार्यदेशीयाः खच्छन्दबुद्ध्या व्याचक्षते तथा प्रतिपादयति--
दोचं पि उग्गहो चि य, केइ गिहत्थेसु दोच्चमिच्छति ।।
साग ! गुरुणो नयामो, अणिच्छे पच्चाहरिस्सामो॥ २८११॥ 'द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः' इति सूत्रे यदुक्तं तत् केचिदाचार्या गृहस्थविषयं 16 द्वितीयमवग्रहमिच्छन्ति । कथम् ? इत्याह--"साग" इत्यादि । यः श्रावको वस्त्रं ददाति स वक्तव्यः-हे श्रावक ! वयमेतद् वस्त्रं गृहीत्वा गुरूणां समीपे तावन्नयामः, यद्याचार्या एतद् ग्रहीष्यन्ति ततो भूयोऽप्यागम्य भवतः समीपे द्वितीयं वारमवग्रहमनुज्ञापयिष्याम इति, अथाचार्या वस्त्रं न ग्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवत एवेदं प्रत्याहरिष्यामः ॥२८११॥
4 अमुमेव पक्षं परः समर्थयन्नाह-~ 20
इहरा परिट्ठवणिया, तस्स व पञ्चप्पिणंति अहिगरणं ।
गिहिगहणे अहिगरणं, सो वा दट्टण वोच्छेदं ॥ २८१२ ॥ 'इतरथा' यद्येवं न विधीयते ततो दर्शितमपि वस्त्रं यदाऽऽचार्या न गृह्णीयुस्तदा पारिष्ठापनिकादोषः । अथ न परिष्ठापयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्य प्रत्यर्पयतां
परिभोग-धावनादिकमधिकरणमुपजायते । अथ तत् परिष्ठापितं वस्त्रं कोऽपि गृही गृह्णाति 26 ततोऽप्यधिकरणमेव । ‘स वा' दाता तद् वस्त्रं परिष्ठापितं श्रुत्वा अन्यगृहस्थगृहीतं वा दृष्ट्या तद्रव्यान्यद्रव्यव्यवच्छेदमेकस्यानेकेषां वा साधूनां कुर्यात् ॥ २८१२ ॥ अथ सूरिः परोक्तं दूषयन्नाह
चोयम ! गुरुपडिसिद्धे, तहिं पउत्थे धरित दिन्नं तु ।'
धरणुज्झणे अहिमरणं, गेण्हेज सयं व पडिणीयं ॥ २८१३ ॥ 30 हे नोदक ! एवं क्रियमाणे त एव त्वदुक्ता दोषा भवन्ति । तथाहि-तद् वस्त्रमानीय गुरूणामर्पितम् , तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम् , तच्च वस्त्रं यावत् तस्य दाय
१२ एतचिह्नगतः पाठः भा० त० डे० नास्ति ॥ २'दोषो भवति । 'वा' इति अथवा चेन्न परिकां०॥ ३ एतदप्रै ग्रन्थानम-४००० इति भा० विना ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org