SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २८०३-९] प्रथम उद्देशः । ७९३ कल्पते, तपः-संयमादिक्षतिप्रसङ्गात् । या च चतुर्थमवभाषते तस्याः परदारदोषकथनं क्रियते, यथा— परपुरुष-परदारप्रसक्तयोः स्त्री-पुंसयोरिहैव भवे दण्डन- मुण्डन - तर्जन- ताडनादयः, परभवे तु नरकगतौ गतानां तप्तायः पुत्तलिकालिङ्गनादयः, तत उद्वृत्तानां तिर्यग्मनुष्यभवग्रहणेषु भूयो भूयो नपुंसकत्व - दौर्भाग्यप्रभृतयो बहवः प्रत्यपायाः । अपि च त्वं मम माता वा भगिनी वा वर्त्तसे अतः कृतमनया वार्त्तयेति ।। २८०५ ।। वस्त्रदानस्यैव कारणान्तरमाह - एक्कस्स व एकस्स व, कजे दिजंत गिण्हई जो उ । ते चैव तेस्स दोसा, बालम्मि य भावसंबंधी || २८०६ ॥ 'एकस्य वा ' पूर्वसम्बन्धस्य 'एकस्य वा' पश्चात्सम्बन्धस्य कार्ये दीयमानं वस्त्रं यः साधुर्गृहाति तस्य 'त एव' प्रागुक्ताः शङ्कादयो दोषाः । 'बाले च' बालविषयो भावसम्बन्धो वक्ष्यमाणो भवतीति' समासार्थः ॥ २८०६ ॥ अथैनामेव गाथां विवृणोति 10 अहवण पुट्ठा पुवेण पच्छबंधेण वा सरिसमाह । संकाइया उ तत्थ वि, कडगा य बहू महिलियाणं ।। २८०७ ॥ अथवा सा दात्री पृष्टा सँती ' पूर्वसम्बन्धेन' यादृशो मम भ्राता तादृश एव त्वं वर्त्तसे, 'पश्चात्सम्बन्धेन तु' श्वशुरस्य देवरस्य भर्तुर्वा सदृशस्त्वं विलोक्यसे अतोऽहं भवते वस्त्रं प्रयच्छामीत्याह, एवमन्यतरेण सम्बन्धकार्येण दीयमानं यदि गृह्णाति तदा त एव शङ्कादयो दोषाः । 15 यदि च तस्या अविरतिकाया बालमपत्यं किमपि विद्यते तदा स साधुस्तया भ्रातृभावेन प्रतिपन्नः सन् चिन्तयति — इदं मे भागिनेयम्; अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति — इदं मे पुत्रभाण्डम् ; एवमादिको भावसम्बन्धो भवति, ततश्च प्रतिगमनादयो दोषाः । किञ्च महेलि - कानां बहूनि 'कृतकानि' कैतवानि भवन्ति, तेर्ने देवरादिग्रहणोपायेन सम्बन्धमानीय चारित्रात् परिभ्रंशयन्तीति भावः ॥ २८०७ ॥ यत एवमतः 20 एयद्दोस विमुक्कं, वत्थग्गहणं तु होइ कायव्वं । खमउत्ति दुब्बलो त्ति य, धम्मो त्ति य होति निद्दोसं ॥ २८-८ ॥ एतै:- :- अनन्तरोक्तैर्देषैर्विमुक्तं वस्त्रग्रहणं साधुना कर्त्तव्यं भवति । कथम् ? इत्याह“खमउ त्ति” इत्यादि । यदि सा दात्री पृष्टा सती ब्रूयात् – 'क्षपकः' तपस्वी त्वम्, अथवा दुर्बलोऽसि क्षपकतया स्वभावेन वा ततस्ते प्रयच्छामि, यद्वा 'तपखिने दीयमाने धर्मो भवति' इति 25 कृत्वा ददामीति, एवं ब्रुवति दायके तद् वस्त्रं लभ्यमानं निर्दोषं भवति || २८०८|| किञ्चआरंभनियत्ताणं, अकिणंताणं अकारविंताणं । धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ।। २८०९ ।। १ तत्थ दो ता० ॥ २ °ति निर्युक्तिगाथासमा कां० ॥ ३ सती पूर्वसम्बन्धेन वा पश्चात्सम्बन्धेन वा यदि 'सदृशं' सम्बन्धिनं तं साधुम् 'आह' ब्रूते । तत्र पूर्वसम्बन्धेन यथा - यादशो कां० ॥ ४°न पत्यादिग्रहणों भा० ॥ Jain Education International For Private & Personal Use Only आरम्भः-षट्कायोपमर्दः तस्मान्निवृत्तानां तथा 'अक्रीणतां' वस्त्रादिक्रयमकुर्वाणानाम् 'अकारयतां' आरम्भ-क्रयकरणे परमव्यापारयतामेवंविधानां 'धर्मे' श्रुत चारित्रभेदभिन्ने कृतमनसां 30 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy