________________
७९२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ३८
कथय किमपि तादृशं वशीकरणं येन भोगिको मे वशीभवति ॥ २८०२ ॥ इदमेव स्पष्टयति - पुच्छाहीणं गहियं, आगमणं पुच्छणा निमित्तस्स ।
छिन्नं पि हु दायव्वं, ववहारो लब्भए तत्थ ॥ २८०३ ॥
ग्रहणकाले 'केन कार्येण मे प्रयच्छसि ?' इत्येवं पृच्छया हीनं वस्त्रं गृहीतम् । गृहीते च b तस्याः संयतप्रतिश्रये आगमनम् आगता च सा 'पुत्रो मे भविता ? न वा ?' इत्यादिकं निमित्तं पृच्छति', येन वाऽहं भोगिकस्याभिरुचिता भवामि तत् किमप्युपदिश । ततः साधुना वक्तव्यम् —न कल्पते मैथुनं प्रतिसेवितुं साधूनाम्, वेण्टलं निमित्तं वा नाहं जानामि । एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण च्छित्त्वा पात्रधादिकं किमप्यपरं कृतं ततश्छिन्नमपि तदेव दातव्यम् । अथ व्यवहारद्वारं व्याख्यायते10 तत्र यदि सा छिन्नं न गृह्णाति, ब्रवीति च - मम सकलमेव प्रयच्छ । ततो राजकुलं गत्वा व्यवहारे प्रारब्धे कारणिका अभिधातव्याः, यथा - केनचिद् वृक्षखामिना वृक्षो विक्रीतः, ऋयिकेण च मूल्यं दत्त्वा छित्त्वा च खगृहं नीतः, ततः स विक्रयिकः पश्चात्तापितो भणति - प्रतिगृहाण मूल्यम् प्रत्यर्पय मदीयं वृक्षम् ; क्रयिकः प्राह - मया स वृक्षश्छित्त्वा पृथक्काष्ठानि कृतः, अतः कथं तमेव वृक्षमखण्डमहं ते समर्पयामि ?; एवं विवदमानौ तौ राजकुलमुपस्थितौ, 15 ततः कथयत कारणिकाः ! किं स क्रयिको युष्माभिर्वृक्षं दाप्यते ? अथ दाप्यते ततः काष्ठान्येव, न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते ॥ २८०३ ॥
3
पाहुणएणऽण्णेण व, नीयं व हियं व होइ दङ्कं वा । तहियं अणुट्ठाई, अन्नं वा दड्ढ मोत्तूणं ।। २८०४ ॥
अथ वस्त्रं प्राघुणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनेन वा दग्ध 20 तत्र चानुशिष्ट्यादिकं कर्त्तव्यम् । अनुशिष्टिर्नाम - सद्भावकथनपुरःसरं प्रज्ञापना । तथाऽप्यनुपरतायां धर्मकथा कर्त्तव्या, विद्यया मंत्रेण वा निराकरणीया । तदभावेऽन्यद् वस्त्रं तस्यादात व्यम्, परं दग्धं वस्त्रं मुक्त्वा, दग्धे हृते वा न किञ्चिद् दीयत इति भावः । यदि सा राजकुलमुपतिष्ठते ततस्तत्रापि व्यवहारो लभ्यते, “दत्त्वा दानमनीश्वरः" इति ॥ २८०४ ॥
अथ दानकाले साधुना पृष्टम् - किंनिमित्तं ददासि ? तत्र सा तूंष्णिका स्थिता, बहिश्चे25 ष्टया न तथाविधः कोऽपि भाव उपदर्शितः, परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते वा तत्राभिधातव्यम् -
न वि जाणामों निमित्तं, न य णे कप्पइ पउंजिउं गिहिणो । परदारदोसकहणं, तं मम माया य भगिणी य ॥ २८०५ ॥
वयं निमित्तं न जानीमः, न च "णे" अस्माकं जानतामपि गृहिणः पुरतो निमित्तं प्रयोक्तुं
१ °ति, उपलक्षणमिदम्, तेन चतुर्थमवभाषते वशीकरणं वा पृच्छति येनाहं भो' कां० ॥ २ मो० ले० विनाऽन्यत्र —म् । एतेन दानद्वारमपि विवृतम् । अथ व्यव' कां० | 'म् । अथ सा छिन्नं भा० त० डे० ॥ ३ एतदग्रे अत्रैव प्रकारान्तरमाह इत्यवतरणं कां० ॥
४ भवति हृतं वा स्तेनेन प्रदीपनकेन वा कां० ॥ ५ °हिणां पु° कां विना ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org