________________
७९१
भाष्यगाथाः २७९६-२८०२) प्रथम उद्देशः । गतं मिथ्यात्वद्वारम् । अथ 'श्रुत्वा शङ्का' द्वारं विराधनाद्वारं चाह-»
एमेव पउत्थे भोइयम्मि तुसिणीयदाण-गहणे तु ।। महतरगादीकहिए, एगतर पतोस वोच्छेदो ॥ २८०० ॥ मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा ।
संकमसंके गुरुगा, सविसेसतरा पउत्थम्मि ॥ २८०१॥ एवमेव 'प्रोषिते' देशान्तरगतेऽपि भोगिके दोषा वक्तव्याः । तथाहि-तेन भोगिकेन देशान्तरं गच्छता ये महत्तरकाः स्थापितास्तैः आदिशब्दाद् महत्तरिकया ब्यक्षरिकया कर्मकरेण वा तयोरविरतिका-संयतयोस्तूष्णीकदान-ग्रहणं दृष्ट्वा भोगिकस्य भूयः समागतस्य कथितम् । ततश्चै सः 'एकतरस्य' संयतस्याविरतिकाया वा उपरि प्रद्वेषं गच्छेत् , प्रद्विष्टश्चाविरतिकां संयतं वा हन्याद् निष्काशयेद्वा बन्नीयाद्वा निरुन्ध्याद्वा विमानयेद्वा, व्यवच्छेदं वैकस्यानेकेषां वा कुर्यात् । 10 अत्र च मैथुनशङ्कायां चत्वारो गुरुकाः, निःशङ्किते मूलम् । वेण्टलशङ्कायां चत्वारो लघुकाः, निःशङ्किते चत्वारो गुरवः । सविशेषतराश्च दोषाः प्रोषिते भोगिके भवन्ति, ते च यथासानं प्रागेवोक्ताः (गा० २७९९) ॥ २८०० ॥ २८०१ ॥
एवं ता गेण्हते, गहिए दोसा पुणो इमे होति ।।
घरगयमुवस्सए वा, ओभासइ पुच्छए वा वि ॥ २८०२ ॥ 15 एवं तावद् वस्त्रं गृह्णतो दोषा उक्ताः, गृहीते पुनर्वस्त्रे 'एते' वक्ष्यमाणा दोषा भवन्तितस्मिन् गृहे यदा स एव साधुरन्यस्मिन् दिवसे गतो भवति सा वा अविरतिका तस्य साधोरुपाश्रये आगता भवति तदा मैथुनमवभाषते-त्वं ममोझामको भव । वेण्टलं वा सा पृच्छति
१ एतन्मध्यगतः पाठः त० डे० मो० ले. नास्ति ॥
२ च तच्छुत्वा भोगिको मैथुनविषयां वेण्टलविषयां वा शङ्कां कुर्यात् । अत एव सः 'एक कां• ॥ ३ °के वक्तव्याः , ते भा० ॥ ४ इतोऽग्रे भा० विनाऽन्यत्र
मिच्छत्तं गच्छिना, दिजंतं दट्ठ भोयओ तीसे।
वोच्छेय पओसं वा, एगमणेगाण सो कुजा ॥ तद् वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी 'भोजकः' भर्ती मिथ्यात्वं गच्छेत्, यथानिस्सारं प्रवचनममीषाम् इत्यादि । प्रतिपन्नमिथ्यात्वश्च तस्य वा एकस्य साधोरने. केषां वा साधूनां तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुर्यात् प्रद्वेषं वा गच्छेत् ॥ एवं ता० गाथा त० डे० मो० ले।
अथ चतुर्थावभाषण-वेण्टलपृच्छाद्वारे विवृणोति-एवं ता० गाथा का० । "णिस्संकिए मिच्छत्त त्ति अस्य व्याख्या-मिच्छत्तं गच्छेज्जा० गाधा कंठा ॥” इति चूर्णौ । मिच्छत्तं गच्छिज्जा० गाथा त० डे. मो० ले० चूर्णौ च व्याख्यासहिता पुनरावर्तिता वर्तते, भा० को. विशेषचूर्णौ बृहद्भाष्ये च सर्वथा नास्ति, २८०१ गाथाव्याख्यान्ते "ते च यथास्थानं प्रागेवोक्ताः" इति
टीकाकृदुल्लेखदर्शनेन नेयं गाथाऽत्र टीकाकर्तुरभिमतेति वयं मन्यामह इति नेयं गाथा तट्टीका च मूल आहता ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org