SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २७९२-९५] प्रथम उद्देशः । ७८९ 1 ततश्च पात्रं च प्रोञ्छनं चेति पात्र-प्रोञ्छनम् , समाहारद्वन्द्वः, - एतैः उप-सामीप्ये आगत्य निमन्त्रयेत् । उपनिमन्त्रितस्य च "से" तस्य निर्ग्रन्थस्य 'साकारकृतं' 'आचार्यसत्कमेतद् वस्त्रं न मम, अतो यस्मै ते दास्यन्ति अन्यस्मै वा मह्यं वा आत्मना वा परिभोक्ष्यन्ते तस्यैतद् भविष्यति' इत्येवं सविकल्पवचनव्यवस्थापितं सद् गृहीत्वा तत आचार्यपादमूले तद् वस्त्रं स्थापयित्वा यदि ते तस्यैव साधोः प्रयच्छन्ति तदा 'द्वितीयमप्यवग्रहम्' एकस्तावद् गृहस्थादवग्रहो- 5 ऽनुज्ञापितो द्वितीयं पुनराचार्यपादमूलादवग्रहमनुज्ञाप्य धारणा-परिभोगरूपं द्विविधमपि परिहार तस्य वस्त्रस्य 'परिहत्तुं' धातूनामनेकार्थत्वाद् आचरितुं कल्पते इति सूत्रसङ्केपार्थः ॥ अथ विस्तरार्थं बिभणिषुराह दुविहं च होइ वत्थं, जायणवत्थं निमंतणाए य। . निमंतणवत्थं ठप्पं, जायणवत्थं तु वोच्छामि ॥ २७९४ ॥ 10 द्विविधं च भवति वस्त्रम्-याच्वस्त्रं निमन्त्रणावस्त्रं च । तत्र निमन्त्रणावस्त्रं 'स्थाप्यं । पश्चादभिधास्यते इत्यर्थः । याच्यावस्त्रं पुनः साम्प्रतमेव वक्ष्यामि ॥ २७१४ ॥ यथाप्रतिज्ञातमेव निर्वाहयति नाम ठवणावत्थं, दव्वव्वत्थं च भाववत्थं च । एसो खलु वत्थस्सा, निक्खेवों चउव्विहो होइ ।। (गा० ६०३) 13 ईत्यादिकाः एवं तु गविढेसुं, आयरिया देंति जस्स जं नत्थि । समभागेसु कएसु व, जहराइणिया भवे बीओ॥ (गा० ६४८) इति पर्यन्ताः षट्चत्वारिंशद् गाथा यथा पीठिकायां वस्त्रकल्पिकद्वारे (पत्र १७४) तथैवात्र द्रष्टव्याः ॥ उपसंहरन्नाह एयं जायणवत्थं, भणियं एत्तो निमंतणं वोच्छं । पुच्छादुगपरिसुद्धं, पुणरवि पुच्छेजिमा मेरा ॥ २७९५ ॥ एतद् याच्यावस्त्रं भणितम् । इत ऊई निमन्त्रणावस्त्रं वक्ष्यामि । तच्च यदा 'कस्यैतद् वस्त्रम् ? किं वा नित्यनिवसनीयादिकमिदमासीत् ?' इति पृच्छाद्वयेन परिशुद्धं भवति तदा 'पुनरपि' तृतीयया पृच्छया पृच्छेत् । तत्र च 'इयं' वक्ष्यमाणा 'मर्यादा' सामाचारी ॥२७९५॥ तामेवाह-27 20 १ » एतचिह्नगतः पाठः भा० का० एव वर्तते ॥ २ "परिहरित्तए त्ति आयरित्तए ॥ एष सूत्रार्थः । अधुना नियुक्तिविस्तर:-"दुविधं च० गाधाद्वयं” इति चूर्णौ ॥ ___३ 'याच्यावस्त्रं तु याच्मा-प्रार्थना तया प्राप्तं यद् वस्त्रं तद् यात्रावस्त्रम्, शाकपार्थिवादित्वाद् मध्यमपदलोपी समासः, तत् पुनः साम्प्र कां० ॥ ४ इत आरम्य-एवं कां० ।। ५°द्वारे व्याख्यातास्तदवस्था एवात्रापि तथैव द्रष्टव्याः कां ॥ ६ तदपि यदा 'पृच्छाद्वयपरिशुद्धं' 'कस्यैतद् वस्त्रम् ? किं वा नित्यनिवसनीयादिकमिदमासीत् ?' इति द्वाभ्यां निर्दोषमिति निश्चितं तदा 'पुनरपि' भा० ॥ ७ °या किमर्थं ददासि ?' इति लक्षणया पृच्छेत् का ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy