________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सू० ३८
अ व ग्रह प्रकृतम्
सूत्रम्
निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविहं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पाय-पुंछणेण वा उवनिमंतिजा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चं पि उग्गहं
अणुण्णवित्ता परिहारं परिहरित्तए ३८॥ अस्य सूत्रस्य सम्बन्धमाह
__ अविरुद्ध भिक्खगतं, कोइ निमंतेज वत्थमाईहिं । 10
कारण विरुद्धचारी, विगिंचितो वा वि गेण्हेजा ॥ २७९२ ॥ ___ 'अविरुद्धे' विरुद्धराज्यविरहिते ग्रामादौ 'भिक्षागतं' भिक्षायां प्रविष्टं साधु कश्चिदुपासकादिर्वस्त्रादिभिर्निमन्त्रयेत् , यद्वा 'कारणे' दर्शन-ज्ञानादौ विरुद्धराज्यचारी स्तेनादिभिः 'विविक्तः' मुषितः सन् वस्त्राणि गृह्णीयात् , अतो वस्त्रग्रहण विधिः प्रतिपाद्यते ॥ २७९२ ॥
___ अहवा लोइयतेणं, निवसीम अइच्छिए इमं भणितं ।
दोच्चमणणुन्नवेडं, उत्तरियं वत्थभोगादी ॥ २७९३ ॥ अथवा नृपसीमानमतिक्रम्य विरुद्धराज्यसङ्क्रमणे लौकिकस्तैन्यम् , इदमनन्तरसूत्रे भणितम् । अत्र तु सूत्रे द्वितीयं वारमवग्रहमाचार्यसमीपेऽननुज्ञाप्य यदा वस्त्रपरिभोगम् आदिशब्दाद् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं भवतीति प्रतिपाद्यते ॥ २७९३ ॥ ___ एभिः सम्बन्धैरायातस्यास्य व्याख्या-निर्ग्रन्थं' पूर्वोक्तशब्दार्थ चशब्दोऽर्थान्तरोपन्यासे 20 "ण"मिति वाक्यालङ्कारे गृहस्य पतिः-स्वामी गृहपतिस्तस्यै कुलं-गृहं 'पिण्डपातप्रतिज्ञया' पिण्ड:-ओदनादिस्तस्य पातः-पाने प्रवेशस्तत्प्रतिज्ञया-तत्प्रत्ययमनुप्रविष्टं 'कश्चिद्' उपासकादिर्वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पात्र-प्रोञ्छनेन वा उपनिमन्त्रयेत् । वस्त्रं सौत्रिकमिह गृह्यते, प्रतिग्रहः-पात्रकम् , कम्बलम्-ओर्णिकः कल्पः, पात्रशब्देन तु पात्रबन्ध-पात्रकेसरिकाप्रभृतिकः पात्रनियोगः, प्रोञ्छनशब्देन तु रजोहरणमुच्यते, आह च चूर्णिकृत्---
पायग्गहणेणं पायभंडयं गहियं, पुंछणं रयहरणं ति । १°रुद्ध' पूर्वसूत्रनिषिद्धविरु° का ॥ २°नादौ वाऽऽलम्बने साते सति विरु° कां०॥ ३ अथ द्विती कां० विना ॥
४°न्दो वाक्यान्त° भा० ॥ ५ त. डे. मो० ले. विनाऽन्यत्र-"स्य यत् कुलं-गृहं तत् पिण्ड° भा० । स्य यत् कुलंगृहं गृहपतिकुलं तत् 'पिण्ड का । “गाधावति गाधा गृहमित्येकोऽर्थः तस्य गृहस्य पतिः गृहपति
तस्य कुलं गृहमित्येकोऽर्थः।" इति Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org