________________
भाष्यगाथाः २७८५-९१] प्रथम उद्देशः । प्रष्टव्याः । ततस्तेऽपि तेनैव' पूर्वोक्तेन क्रमेण आरक्षिकादीन् पृच्छन्ति । यदा तैरनुज्ञातं भवति तदा तान् साधून् ज्ञापयन्ति-आरक्षिकादिभिरत्रानुज्ञातमस्ति, भवद्भिरत्रागन्तव्यम् ॥२७८८ ॥ एष निर्गमने प्रवेशे च विधिरुक्तः । अथ "आयरिय" ति पदं विशेषतो भावयन्नाह
राईण दोण्ह भंडण, आयरिए आसियावणं होइ।।
कयकरणे करणं वा, निवेद जयणाएँ संकमणं ॥ २७८९ ॥ द्वयो राज्ञोः परस्परं 'भण्डनं' कलहो वर्त्तते, तत्रैकस्य राज्ञः कोऽप्याचार्योऽतीव पूजा-सत्कारस्थानम् , ततश्च द्वितीयो नृपतिस्तत् परिज्ञायाऽऽत्मीयदक्षपुरुषैः "आसिआवणं" ति तस्याचार्यस्यापहरणं कारयति 'अस्मिन् हि गृहीते स प्रतिपन्थिपार्थिवो गृहीत एव भवति' इति । अत्र च यः 'कृतकरणः' धनुर्वेदादौ गृहवासे कृतपरिश्रमस्तस्य तत्र करणं भवति, तेनाचार्यापहारिणा सह युद्धं कर्तुमुपतिष्ठत इत्यर्थः । अथ नास्ति कोऽपि कृतकरणस्ततो यस्य राज्ञः सकाशादपढ-10 तस्तस्य निवेदनं कृत्वा यतनया शेषसाधवः सङ्क्रमणं कुर्वन्ति ॥ २७८९ ॥ इदमेव स्फुटतरमाह-(ग्रन्थानम्-७५०० । सर्वग्रन्थाग्रम्-१९७२०)
अब्भरहियस्स हरणे, उज्जाणाईठियस्स गुरुणो उ । उव्वट्टणासमत्थे, दूरगए वा वि सवि बोलं ॥ २७९० ॥ पेसवियम्मि अदेंते, रत्ना जइ विउ विसजिया सिस्सा । 15
गुरुणो निवेइयम्मि, हारिंतगराइणो पुचि ॥ २७९१॥ 'अभ्यर्हितस्य' राजमान्यस्य 'गुरोः' आचार्यस्योद्यान-सभा-प्रपादिषु स्थितस्य हरणं भवति । यदि च कोऽपि युद्धकरणेन विद्याप्रयोगेण वा तस्योद्वर्तनायाः-वालनायाः समर्थो भवति ततः स तं निवार्याचार्य प्रत्याहरति । अथ नास्त्युद्वर्तनासमर्थः ततः क्षणमात्रं साधवस्तूष्णीका आसते । यदा आचार्यापहारी दूरं गतो भवति तदा “सवि" त्ति सर्वेऽपि साधवो बोलं कुर्वन्ति-अस्माकमा- 20 चार्यों हृतो हृतः, धावत धावत लोकाः ! इति । आसन्नस्थिते तु वोलं न कुर्वन्ति 'मा भूत् परस्परं बहुजनक्षयकारी युद्धविप्लवः' इति । ततश्च राजा साधुभिरभिधातव्यः-अनाथा वयमाचार्यविना, अत आचार्या यथाऽत्रागच्छन्ति तथा कुरुत । एवमुक्तोऽसौ द्वितीयस्य राज्ञो दूतं विसर्जयतिशीघ्रमाचार्यः प्रेषणीय इति । यदि तेन प्रस्थापितस्ततो लष्टम् । अथासौ दूते प्रेषितेऽप्याचार्य न ददाति-न विसर्जयतीत्यर्थः ततः साधवो द्वे त्रीणि वा दिनानि राजानं दृष्ट्वा ब्रुवते-अस्मान् 25 विसर्जयत येन गुरूणामुपकण्ठं गच्छामः, कीदृशा वयं गुरुविरहिता अत्र तिष्ठन्तः? खाध्यायादिकं वाऽत्र न किमपि निर्वहतीत्यादि । एवमुक्ते यद्यपि ते शिष्या राज्ञा विसर्जितास्तथापि गुरूणां सन्देशकप्रेषणेन निवेदयन्ति–वयमागच्छन्तः स्मः । ततो गुरवः "हारिंतगराइणो पुविं" ति अपहर्तृराज्ञः पूर्वमेव निवेदयन्ति-अहं शिष्यानप्यानयामि, अतः स्थानपालानामादेशं प्रयच्छत येन ते तान्न गृह्णन्ति । एवं निवेदिते सति यतनया सङ्क्रमणं कुर्वन्ति ॥२७९० ॥२७९१ ॥ 30
॥ वैराज्यविरुद्धराज्यप्रकृतं समाप्तम् ॥ १ अथाचार्यद्वारं विशे° भा०॥ २°त्यर्थः । वाशब्दादन्यो वा विद्याप्रयोगेण तं निवारयति । अथ नास्ति कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org