________________
७८६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वैराज्य० प्रकृते सूत्रम् ३७ पदम् , राजकुलेन सह सङ्गतं-सम्बद्धं केनापि साधुना अधिकरणं कृतं तदुपशमनाय गच्छति । एवमादिषु कार्येषु वैराज्येऽपि गन्तुं कल्पते ॥ २७८४ ॥ । अथ दर्शन-ज्ञानपदद्वयं भाष्यकृद् व्याख्यानयति
सुत्त-ऽत्थ-तदुभयविसारयम्मि पडियन्न उत्तिमट्ठम्मि । __ एतारिसम्मि कप्पइ, वेरज-विरुद्धसंकमणं ॥ २७८५ ॥ दर्शनप्रभावकशास्त्राणामाचारादिश्रुतज्ञानस्य वा सम्बन्धि यदन्यत्राविद्यमानं सूत्रार्थतदुभयं तत्र विशारदः कश्चिदाचार्यः स चोत्तमार्थमनशनं प्रतिपन्नः । यस्मिँश्च क्षेत्रेऽसौ स्थितस्तत्र अपान्तराले वा वैराज्यं वर्तते, 'तौ च सूत्रार्थो मा व्यवच्छेदं प्रापताम्' इति कृत्वा एतादृशे
कारणे वैराज्य-विरुद्धे सङ्क्रमणं कर्तुं कल्पते ॥ २७८५ ॥ 10 अथ येन विधिना तत्र गन्तव्यं तमभिधित्सुराह
आपुच्छिय आरक्खिय-सेहि-सेणावई-अमच्च-राईणं ।
अइगमणे निग्गमणे, एस विही होइ नायव्यो । २७८६ ॥ आपृच्छयारक्षिकं ततः श्रेष्ठिनं ततः सेनापतिं ततोऽमात्यं ततो राजानमप्यापृच्छय निर्गन्तव्यं प्रवेष्टव्यं वा । एष विधिः 'अतिगमने' परराज्यप्रवेशे निर्गमने च' पूर्वस्माद् राज्याद् 15 निर्गमने च ज्ञातव्यो भवति ॥ २७८६ ॥ अमुमेवार्थ प्रकटयन्नाह--
आरक्खितो विसजइ, अहव भणिजा स पुच्छह तु सेटिं ।
जाव निवो ता नेयं, मुद्दा पुरिसो व दृतेणं ॥ २७८७ ॥ वैराज्य-विरुद्धं गच्छता प्रथमत एवारक्षिकः प्रष्टव्यः । यद्यसौ विसर्जयति ततो लष्टम् । अथासौ भणेत्-नाहं जानामि, 'श्रेष्ठिनं' श्रीदेवताऽध्यासितशिरोवेष्टनविभूषितोत्तमाङ्गं पृच्छत । 20 ततः श्रेष्ठी प्रष्टव्यः, एवं यावद् 'नृपः' राजा तावद् 'नेयं' नेतव्यं वक्तव्यमित्यर्थः । तचैवम् -
श्रेष्ठी पृष्टो यदि विसर्जयति ततः सुन्दरम् , अथासौ ब्रूयात्-अहं न जानामि, सेनापति प्रभयत । ततः सेनापतिः प्रनितो यद्यनुजानीते ततः शोभनम् , अथासौ ब्रूयात् –अमात्यं पृच्छत । ततोऽसावमात्यः पृष्टो यदि विसर्जयति ततो लष्टम् , अथ ब्रूयात्-राजानं पृच्छत । ततो राजाऽपि प्रष्टव्यः । एते च राजादयो यदि विसर्जयन्ति तदा मुद्रापट्टकं दूतपुरुषं वा 25 मार्गयितव्याः, येन 'राजादिना विसर्जिता एते' इति स्थानपालकाः प्रत्ययतः पथमवतारयन्ति; यो वा दूतस्तत्र राज्ये व्रजति तेन साई गच्छन्ति ॥ २७८७ ॥ एवं तावद् यतो राज्यान्निर्गच्छन्ति तत्र विधिरुक्तः । अथ यत्र राज्ये गन्तुकामास्तत्र प्रविशतां विधिमाह--
जत्थ वि य गंतुकामा, तत्थ वि कारिति तेसि नायं तु।
आरक्खियाइ ते वि य, तेणेव कमेण पुच्छंति ॥ २७८८ ॥ 30 यत्रापि राज्ये गन्तुकामास्तत्रापि ये साधवो वर्तन्ते तेषां लेखप्रेषणेन सन्देशकप्रेषणेन वा प्रागेव ज्ञातं कुर्वन्ति, यथा-वयमितो राज्यात् तत्रागन्तुकामाः, अतो भवद्भिस्तत्रारक्षिकादयः १'राज्य विरुद्धराज्येऽपि कां०॥
२°शानलक्षणमाद्यं पद का० ॥ ३°धिरतिगमने निर्गमने च ज्ञातव्यो भा० त• डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org