________________
भाष्यगाथाः २७७६-८४] प्रथम उद्देशः ।
उग्याएमो रुस्खे, मा एंतु फलत्थिणो सउणा ॥ २७८१ ॥ 'ते' साधवो राजपुरुषैः पृच्छयन्ते–किमर्थं यूयमिहागताः स्थ ? । साधवो ब्रुवते-'सन्ति' विद्यन्ते “णे' अस्माकमिहाचार्यादयः अतो वयमागताः । ततो राजपुरुषा दृष्टान्तं वदन्तियस्मात् फलार्थिनः 'शकुनाः' पक्षिणो वृक्षानागच्छन्ति तस्मात् तानेव वृक्षानुद्धातयामः, मा फलार्थिनः शकुना आगच्छन्तु । एतेन दृष्टान्तसामर्थेन तानेवाचार्यादीनुद्धातयामो येन तदर्थमिह 5 कोऽपि नागच्छति ॥ २७८१ ॥ यत एते दोषा अतः
एयारिसे विहारो, न कप्पई समणसुविहियाणं तु ।
दो सीमेऽइक्कमई, जिणसीमं रायसीमं च ॥ २७८२ ॥ एतादृशे वैराज्ये विरुद्धराज्ये विहारः श्रमणानां सुविहितानां न कल्पते । यस्तु करोति स द्वे सीमानावतिक्रामति, तद्यथा-'जिनसीमानं' 'न कल्पते वैराज्यसङ्क्रमणं कर्तुम्' इति लक्षणां 10 'राजसीमानं च' 'नकर्तव्यो मदीयराज्यात् परराज्ये गमागमः' इति रूपाम् ॥२७८२॥ किञ्च
बंधं वहं च घोरं, आवजइ एरिसे विहरमाणो ।
तम्हा उ विवजेजा, वेरज-विरुद्धसंकमणं ॥ २७८३ ॥ 'बन्धं' निगडादिनियन्त्रणं 'वधं च' कशाघातादिकं 'घोरं' भयानकमीशे विहरमाणो यत आपद्यते तस्माद् वैराज्य-विरुद्धराज्यसङ्क्रमणं विवर्जयेत् ।। २७८३ ॥ अथ द्वितीयपदमाह--15
दसण नाणे माता, भत्तविसोही गिलाणमायरिए।
अधिकरण वाद राय कुलसंगते कप्पई गंतुं ॥ २७८४ ॥ दर्शनार्थ ज्ञानार्थ वैराज्यसङ्क्रमणमपि कुर्यात् । “माय" त्ति मातापितरौ कस्यापि प्रव्रजितुकामौ शोकेन म्रियेते तयोः समाधानार्थं गच्छेत् । “भत्तविसोहि" ति कश्चित् साधुभक्तं प्रत्याख्यातुकामः स विशोधिम्-आलोचनां दातुकामो गीतार्थस्य पार्थे गच्छेत् , अजङ्गमस्य वा 20 तस्य पार्श्वे गीतार्था गच्छन्ति । "गिलाण" ति ग्लानस्य वा प्रतिचरणार्थ प्रायोग्यौषधहेतवे वा गच्छेत् । "आयरिय" त्ति आचार्यसमीपे आचार्याणामादेशेन वा गच्छति । "अधिकरण" ति कस्यापि साधोः केनापि गृहिणा सहाधिकरणमुत्पन्नम् , स च गृही नोपशाम्यति, ततः प्रज्ञापनालब्धिमान् तस्योपशमनाय गच्छति । "वाद" त्ति अन्यराज्ये परप्रवादी कश्चिदुत्थितः तस्य निग्रहार्थं वादलब्धिसम्पन्नेन गन्तव्यम् । “राय" ति राजा वा कश्चित् परराष्ट्रीयः साधूनामुलक परि प्रद्विष्टस्तस्योपशमनार्थ सलब्धिकेन गन्तव्यम् । “कुलसंगय" ति उपलक्षणत्वात् कुल-गणसङ्घसङ्गतं किमपि कार्यमुत्पन्नं कुलादिविषयमित्यर्थः । अथवा "रायकुलसंगत" ति एकमेव १°मः, येन ते फलार्थिनः शकुना नागच्छन्ति । एतेन भा० ॥
२°था-जिनसीमानं राजसीमानं च । तत्र जिनसीमा नाम-'न कल्पते पैराज्यसक्रमणं कर्तुम्' इति लक्षणा भगवतामाशा, राजसीमा तु-'न कर्त्तव्यो मदीयराज्यात् परराज्ये गमागमः' इति रूपा, उमे अपि सीमानावेवमतिकामतीति ॥ २७८२ ॥ कां०॥
३ "आयरिओ त्ति सो भत्तं पचक्खाइउकामो तस्स णिजवणट्ठाए गच्छेजा। महिकरणं वा कुल-गण-संपाणं समुप्पनं तस्स उवसमणट्ठा गच्छेन ।" इति विशेषचूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org