SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 10 ७८४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [वैराज्य प्रकृते सूत्रम् ३७ न्यत्र कुत्रापि गमनात् , तत्र यदि साधवो गच्छन्ति तदा 'द्वयोरपि वर्गयोः' स्थानपालकानां संयतानां चेत्यर्थः ग्रहणाकर्षणादयो दोषा भवन्ति ॥२७७५ ॥ तानेव सप्रायश्चित्तान् दर्शयति गेण्हणें गुरुगा छम्मास कड्डणे छैओं होइ ववहारे । पच्छाकडे य मूलं, उड्डहण विरुंगणे नवमं ॥ २७७६ ॥ उद्दावण निविसए, एगमणेगे पओस पारंची। अणवटुप्पो दोसु य, दोसु य पारंचिओ होइ ।। २७७७ ॥ गाथाद्वयस्यापि व्याख्या प्राग्वत् (गा० ९०४-५) ॥ २७७६ ॥ २७७७ ॥ एवमात्मनैवासहायानामत्राणसहायानां वा गच्छतां दोषा अभिहिताः । अथ चौरादिसहाय- युक्तानां दोषानतिदिशन्नाह एमेव सेसएहि वि, चोराईहि समगं तु वच्चंते । सविसेसयरा दोसा, पत्थारो जाव भंसणया ॥ २७७८ ॥ एवमेव चौर-प्रतिचरकादिसहायैः शेषैरपि समकं व्रजतां दोषास्त एव ग्रहणाकर्षणादयो वक्तव्याः, परं सविशेषतराः । तथाहि तेषां साधूनां दोषेण यदन्येषामपि तद्गच्छीयानां परगच्छीयानां वा कुलस्य वा गणस्य वा सङ्घस्य वा ग्रहणाकर्षणादिकम् एष प्रस्तार उच्यते । 15 स वा भवेद् जीवितस्य वा चरणस्य वा भ्रंशनं स्यात् । यावच्छब्दोपादानात् शरीरविकतनभेदा द्रष्टव्याः ॥ २७७८ ॥ सविशेषदोषदर्शनार्थमाह तेणट्ठम्मि पसनण, निस्संकिऍ मूल अहिमरे चरिमं ।। जइ ताव होंति भद्दय, दोसा ते तं चिमं चऽनं ॥ २७७९ ॥ स्तेनादिभिः सह गच्छन् स्तैन्यार्थे प्रसजनं करोति, स्तैन्यादिकं करोति कारयति अनुमन्यते 20 वा इत्यर्थः । तथा यदि स्तेनोऽयम्' इति शयते तदा चत्वारो गुरुकाः । निःशङ्किते मूलम् । 'अभिमरोऽयम्' इति निःशङ्किते 'चरमं' पाराञ्चिकम् । अपि च यदि तावत् ते स्थानपालका भद्रका भवन्ति तथापि वैराज्यं सङ्क्रामतः साधून् दृष्ट्वा चिन्तयन्ति-एतेऽपि यदीदृशानि कुर्वन्ति तर्हि न किमप्यमीषां मध्ये शोभनम् , तीर्थकरेण वा किं न प्रतिषिद्धं वैराज्यसक्रमणम् ? इत्यादि । एवं च तेऽपि प्रान्तीभवन्ति । अथवा यदि ते स्थानपाला भद्रका भवन्ति तदा तैर्विसर्जितानां 25 परराष्ट्रं प्रविष्टानां त एव दोषाः, तदेव च चतुर्गुरुकादिकं प्रायश्चित्तम् , इदं चान्यत् प्रायश्चिचावहं दोषजालम् ॥ २७७९ ॥ १ तदेव दर्शयति आयरिय उवज्झाया, कुल गण संघो य चेइयाइं च । सव्वे वि परिच्चत्ता, वेरजं संकमंतेणं ॥ २७८० ॥ 'आचार्याः' अर्थदातारः 'उपाध्यायाः' सूत्रप्रदाः 'कुलं' नागेन्द्रादि 'गणः' परस्परसापे30 क्षानेककुलसमुदायः 'सङ्घः' गणसमुदायः 'चैत्यानि' भगवद्विम्बानि जिनभवनानि वा । एते आचार्यादयः सर्वेऽपि वैराज्यं सङ्कामता परित्यक्ताः ॥ २७८० ॥ एतदेव भावयति किं आगय त्थ ते बिति संति णे इत्थ आयरियमादी । » एतचिहगतमवतरणं का० ॥ २ रजे सं° ता० ॥ ३ त्थ बेंती, संती णे ता.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy