________________
७८३
भाष्यगाथाः २७६८-७५] प्रथम उद्देशः ।
संजय-गिहि-तदुभयभद्दया य तह तदुभयस्स वि य पंता ।
चउभंगों गोम्मिएहि, संजयभद्दा विसजेति ॥ २७७२ ।। गौल्मिका नाम-ये राज्ञः पुरुषाः स्थानकं बद्धा पन्थानं रक्षयन्ति तेषु चतुर्भङ्गी-संयतभद्रका गृहस्थप्रान्ताः १, गृहिणां भद्रकाः संयतप्रान्ताः २, संयतभद्रका अपि गृहस्थभद्रका अँपि ३, न संयतभद्रका न गृहस्थभद्रकाः किन्तु तदुभयस्यापि प्रान्ताः ४ । अत्र ये संयतभद्रका 5 गौल्मिकाः प्रथमतृतीयभङ्गवर्तिन इत्यर्थः ते साधून् गच्छतो विसर्जयन्ति न निरुन्धते॥२७७२।।
संजयभद्दगमुक्के, वीया घेत्तुं गिही वि गिण्हंति ।
जे पुण संजयपंता, गिण्हंति जई गिही मुत्तुं ॥ २७७३ ॥ संयतभद्रकैर्मुक्तानपि साधून 'द्वितीयाः' द्वितीयभङ्गवर्तिनः स्थानपालकास्ते संयतप्रान्तत्वाद् गृह्णन्ति, गृहीत्वा च ते 'गृहिणोऽपि' प्रथमस्थानपालकान् गृह्णन्ति, 'कस्माद् भवद्भिरमी संयता 10 मुक्ताः' इति कृत्वा । यद्वा ते साधवो गृहस्थसहिता गच्छन्तः संयतभद्रकैर्मुक्ताः, गृहस्था अपि तैः 'अमीषां साधूनामेते सहायाः' इत्यभिप्रायेण मुक्ताः, परं ये द्वितीयभङ्गवर्तिनः स्थानपालकास्ते संयतप्रान्ततया संयतान् गृहीत्वा गृहस्थानपि गृह्णन्ति, यस्माद् 'अमीभिः समं यूयं गच्छतेत्यतो यूयमप्यपराधिनः' इति कृत्वा । ये पुनः संयतप्रान्ताः, पुनःशब्दो विशेषणे, किं विशिनष्टि ? ये गौल्मिकाः संयतानामेवातीव प्रद्विष्टास्ते गृहिणो मुक्त्वा यतीन् गृह्णन्ति, गृहीत्वा च बन्धना-15 दिकं कुर्युः ॥ २७७३ ॥
परम-तइयमुकाणं, रज्जे दिट्ठाण दोण्ह वि विणासो।
पररजपवेसेवं, जओ वि णिती तहिं पेवं ॥ २७७४ ॥ प्रथमतृतीयभङ्गयोः संयतभद्र कैर्मुक्ताः सन्तः साधवः परराज्ये प्रविष्टा दृष्टाश्च राजपुरुषैः, ततः पृष्टाः-किमुत्पथेनायाताः ? उत पथा ? । यदि साधवो भणन्ति 'उत्पथेन' तत 20 उन्मार्गगामित्वात् 'चारिका एते' इति कृत्वा ग्रहणाकर्षणादिकं प्रामुवन्ति । अथ ब्रुवते 'पथा वयमागताः' ततो द्वयोरपि वर्गयोर्विनाशो भवति, संयतानां स्थानपालकानां चेति भावः । एवं परराज्यप्रवेशे दोषा अभिहिताः । यतोऽपि राज्याद् निर्गच्छन्ति तत्राप्येत एव दोषा भवन्ति ॥ २७७१ ॥ अथ “पंथं भित्तूण” (गा० २७७०) इत्यादिदं व्याख्यानयतिरक्खिज्जइ वा पंथो, जइ तं भित्तूण जणवयमइंति ।
25 गाढतरं अवराहो, सुते सुन्ने व दोण्हं पि ॥ २७७५ ॥ अथ चौर-हेरिकादिभयात् पन्था रक्ष्यते, न वा कस्यापि गमनागमनं कर्तुं स्थानपालकाः प्रयच्छन्ति, ततस्तं पन्थानं भित्त्वा यद्युत्पथेन परनृपतेर्जनपदम् 'अतियन्ति' प्रविशन्ति ततो गाढतरमपराधो भवति, महान् दोषस्तेषां लगतीति भावः । अत्र साधूनामेव दोषो न स्थानपालकानाम् । अथ स्थानपालकाः सुप्ता भवन्ति शून्यं वा तत् स्थानकं वर्तते, स्थानपालकानाम- 30 १°नकबद्धाः प° मो० ले० ॥ २°ङ्गी भवति, गाथायां पुंस्त्वं प्राकृतत्वात् , तद्यथा-संय° को० ॥ ३ अपि, एते तदुभयभद्रका उच्यन्ते ३, तथा न सं° का० ॥ ४ पदत्रयं व्या भा० का ० ॥
Jain Education International
För Privaté & Personal Use Only
www.jainelibrary.org