________________
७८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वैराज्य० प्रकृते सूत्रम् ३७ आत्मना रात्रौ मार्गेणादृष्टाः ६ आत्मना रात्री उन्मार्गण दृष्टाः ७ आत्मना रात्रावुन्मार्गेणादृष्टा गच्छन्ति ८ । एवं चौरादिभिः द्वितीयव्याख्यानापेक्षया त्वत्राणादिभिः प्रतिचरकान्तैः सहायैरपि सार्द्ध गच्छतां प्रत्येकमष्टौ भङ्गाः कर्त्तव्याः । “एत्तो एग" इत्यादि पश्चार्द्धम् --एतेषामष्टानां भेदानां प्रत्येकमष्टविधानां मध्यादेकतरेणापि प्रकारेण यो गमनागमनं करोति तस्याऽऽज्ञा-ऽनव5 स्थादयो दोषा भवन्ति ॥ २७६७ ॥ प्रायश्चित्तं चेदम्
__ अत्ताणमाइएसुं, दिय-पह-दिडेसु चउलहू होति ।
राओ अपह अदिढे, चउगुरुगाऽइक्कमे मूलं ॥ २७६८॥ __ आत्मादिष्वत्राणादिषु वा पदेषु ये दिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषु पथ-दृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषु तपः-कालविशेषिताश्चत्वारो लघुकाः । ये तु रात्रिविषयाः पाश्चात्या10श्चत्वारो भङ्गकास्तेषु अपथा-ऽदृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषु तपः-कालविशेषिताश्चत्वारो गुरुकाः । यतो राज्यात् प्रधावितस्तस्य 'अतिक्रमे' अतिलङ्घने कृते सति मूलम् ॥ २७६८ ॥ अथ सर्वभङ्गपरिमाणज्ञापनार्थमाह
अत्ताणमाइयाणं, अट्ठण्हऽढहि पएहिँ भइयाणं ।
चउसहिए पयाणं, विराहणा होइमा दुविहा ॥ २७६९ ॥ 15 आत्मादीनामत्राणादीनां वा अष्टानां पदानामष्टभिः 'पदैः' भङ्गैः प्रत्येकं 'भक्तानां' गुणि
तानां चतुःषष्टिसङ्ख्यानि भङ्गकपदानि भवन्ति । चतुःषष्टेश्च पदानामन्यतरेण गच्छत इयं 'द्विविधा' संयमा-ऽऽत्मलक्षणा विराधना भवति ॥ २७६९ ॥ तामेवाह
छक्काय गहणकड्डण, पंथं भित्तूण चेव अइगमणं । - सुन्नम्मि य अइगमणे, विराहणा दुण्ह वग्गाणं ॥ २७७० ॥ 20 अपथे-अशस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकायम् , नद्यादिसन्तरणेऽवश्यायसम्भवे वाड
कायम् , दवानलसम्भवे सार्थिकप्रज्वालिताग्निप्रतापने वा तेजःकायम् , “यत्राग्निस्तत्र नियमाद् वायुभवति" इति कृत्वा वायुकायम् , हरितादिमर्दने प्रलम्बासेवने वा वनस्पतिम् , पृथिव्युदकवनस्पतिसमाश्रितत्रसानां परितापनादौ त्रसकायम् , एवं षट् कायान् विराधयति इति संयमविराधना । तथा राजपुरुषा ग्रहणाकर्षणादिकं विदध्युरित्यात्मविराधना । अथ ते साधवः 25 पन्थानं' मार्ग भित्त्वोत्पथेन परजनपदे 'अतिगमन' प्रवेशं कुर्वन्ति ततो गाढतरेऽपराधे लगन्ति । 'शून्ये वा' स्थानपालविरहिते मार्गेऽतिगमने विधीयमाने 'द्वयोरपि वर्गयोः' संयतानां सहायानां च विराधना भवतीति ॥ २७७० ॥ - अथ षट्कायविराधनायां तावत् प्रायश्चित्तमाह
छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे।
संघट्टण परितावण, लहु गुरुगऽइबायणे मूलं ॥ २७७१॥ अस्या व्याख्या प्राग्वत् (गा० ४६१) ॥ २७७१ ॥ अथ ग्रहणाकर्षणापदं व्याचष्टे१°नां भङ्गानां प्रत्येकमष्टविधानां सर्वसङ्ख्यया चतुःषष्टिसङ्ख्यानां भेदानां मध्या' कां ॥ २ अथात्मविराधनां बिभावयिषुर्ग्रहणाकर्षणाद्वारं व्या भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org