________________
भाष्यगाथाः २७६३-६७] प्रथम उद्देशः ।
७८१ यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्तोऽविरुद्धास्तत्रं साधूनामपि गमनागमनं विरुद्धं न भवति, कल्पते तत्र गन्तुमिति भावः । यत्र तु वणिजां शेषजनपदस्य च निस्सञ्चारं कृतंगमनागमननिषेधो विहितैस्तद् वैराज्यं विरुद्धमुच्यते, तस्मिन् विरुद्धराज्ये गमनादिकं न कल्पते। कुतः ? इत्याह- "बंधणाईय" त्ति नृपतिविहिताः बन्धनादयो दोषास्तत्र भवन्तीति ॥२७६५॥ तत् पुनर्गमनागमनं कथं भवति ? इत्याह
अत्ताण चोर मेया, वग्गुर सोणिय पलाइणो पहिया ।
पडिचरगा य सहाया, गमणागमणम्मि नायव्वा ॥२७६६ ॥ ___ इह विरुद्धराज्ये गच्छतामनेके प्रकाराः-तत्र » "अत्ताण" त्ति संयता आत्मनैव चौरादिसहायविरहिता गच्छन्ति, एष चूर्ण्यभिप्रायः; निशीथचूर्ण्यभिप्रायस्तु-"अत्ताण" त्ति अत्राणा नाम-स्कन्धन्यस्तलगुडद्वितीया ये देशान्तरं गच्छन्ति कार्पटिका वा स तैः सह 10 साधवोऽपि गच्छन्तीति प्रथमः प्रकारः, एवमुत्तरत्रापि भावना कार्या » १ । तथा 'चौराः' गवादिहारिणः २, 'मेदा नाम' गृहीतचापा दिवा रात्रौ च जीवहिंसापरा म्लेच्छविशेषाः ३, 'वागुरिकाः' पाशप्रयोगेण मृगघातकाः ४, शौनिकाः' शुनिकाद्वितीया लुब्धकाः ५, 'पलायिनो नाम' ये भटादयो राज्ञः पृच्छां विना सकुटुम्बाः प्रणश्य राज्यान्तरं गच्छन्ति ६, 'पथिकाः' नानाविधनगर-ग्राम-देशपरिभ्रमणकारिणः ७, 'प्रतिचरका नाम' ये परराष्ट्र स्वरूपं प्रच्छन्नचारि-13 तया गवेषयन्ति, हेरिका इत्यर्थः ८ । एते आत्मादयोऽत्राणादयो वाऽष्टौ भेदा भवन्ति । केषाश्चिदाचार्याणां वागुरिकाः शौनिकाश्च द्वयेऽप्येक एव भेदस्तन्मतेनाष्टमा अहिमरका भवन्ति । अहिः-सर्पस्तद्वदकृतेऽप्यपकारे परं मारयन्तीत्यहिमरकाः । एते सहायाः साधूनां वैराज्यगमनागमने ज्ञातव्याः ॥ २७६६ ॥ एतेष्वेव भङ्गोपदर्शनायाहअत्ताणमाइएK, दिय पह दिटे य अद्विया भयणा।
20 एत्तो एगयरेणं, गमणागमणम्मि आणाई ॥ २७६७ ॥ __ आत्मादिभेदेषु अत्राणादिषु वा सहायेप्वेकैकस्मिन् दिवा-पथ-दृष्टपदैः सप्रतिपक्षरष्टिका भजना भवति, अष्टावष्टौ भङ्गा भवन्तीत्यर्थः । तथाहि-आत्मना सहायविरहिता दिवा मार्गेण राजपुरुषैदृष्टा गच्छन्ति १ आत्मना दिवा मार्गेण राजपुरुषैरदृष्टाः २ आत्मना दिवा उन्मार्गेण राजपुरुषैदृष्टाः ३ आत्मना दिवा उन्मार्गेण राजपुरुषैरदृष्टाः ४ आत्मना रात्रौ मार्गेण दृष्टाः ५ 25
१°त्र शेषस्यापि जनपदस्य गमनागमनमविरुद्धम्, तत्र साधूनां कल्पते गन्तुमिति वाक्यशेषः । यत्र त भा०॥ २°त इति भावः तद विरु०भा०॥ ३ कतिभिः प्रकारैर्भव कां० ॥ ४-५N एतन्मध्यगतः पाठः भा० त• डे० नास्ति ॥ ६°च्छामन्तरेण पुत्र दार-धनसमेताराज्या भा० ॥ ७°राष्ट्रीय ग्राम-नगर-सेनादीनां प्रच्छन्नचारितया स्वरूपं गवे भा० ॥ ८°काः, “पृषोदरादयः” (सि० ३-२-१५५) इति रूपनिष्पत्तिः, घातका इत्यर्थः । एते को० ॥ ९ “भत्तणा दिवा पंथेण अदिट्ठो १, भत्तणा दिवा पंथेण दिट्ठो २, अत्तणा दिवा उप्पंथेण अदिट्ठो ३, अत्तणा दिवा उप्पंथेण दिट्ठो एक, अत्तणा राओ पंथेण अदिट्ठो र्ल, अत्तणा राओ पंथेण दिट्ठो फ्री, भत्तणा राओ उप्पंथेण अविट्ठो प्रा, अत्तणा राओ उप्पथेण दिट्ठो हा।" इति चूर्णी विशेषचूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org