________________
भाष्यगाथाः २७५८-६२ ] प्रथम उद्देशः । .. अथ विस्तरार्थं भाष्यकृदाह
वेरं जत्थ उ रजे, वेरं जायं व वेररजं वा ।
जं च विरजइ रजं, रजेणं विगयरायं वा ॥ २७६० ॥ . यत्र राज्ये पूर्वपुरुषपरम्परागतं वैरं तद् वैराज्यमुच्यते, नैरुक्ती शब्दनिप्पत्तिः । यद्वा न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययो राज्ययोर्वैरं 'जातम्' उत्पन्नं तद् वैराज्यम् । अथवा पर-5 कीयग्राम-नगरदाहादीनि कुर्वन् यत्र राजादिः वैरे-विरोधे रज्यते तादृशं डमरं वैराज्यमुच्यते । यदि वा यद् राज्यममात्यादिप्रधानपुरुषसमूहरूपं "रजेणं" ति विवक्षितेन राज्ञा सह 'विरज्यते' विरक्तीभवति तद् वैराज्यम् । इष्टरूपनिप्पत्तिः सर्वत्रापि निरुक्तिवशात् । यद्वा विगतः-मृतः प्रोषितो वा राजा यत्र तद् विगतराजकम्-अराजकमित्यर्थः, तदेव वैराज्यम् । यत्र तु द्वयोरपि राज्ञो राज्ये परस्परं गमनागमनं विरुद्धं तद् विरुद्धराज्यमुच्यते ॥ २५६० ॥ .. 10 अथ सद्यःप्रभृतीनि शेषपदानि व्यावष्टे
सज्जग्गहणा तीयं, अणागयं चेव वारियं वेरं ।
पनवग पडुच्च गयं, होजाऽऽगमणं व उभयं वा ॥ २७६१ ॥ सद्यः-वर्तमानकालभावि यद् वैरं तत्र गमनादिकं न कल्पते, एवं सद्योग्रहणादतीतमना. गतं च वैरं निवारितं भवति, यत्र वैरं पूर्वोत्पन्नमस्ति यत्र वा भविष्यत्तया सम्भाव्यमानं 15 तत्रापि क्षेत्रे गमनादीनि न कर्तव्यानीति भावः । तथा प्रज्ञापकं प्रतीत्य 'गतं' गमनमागमनम् 'उभयं वा' गमनागमनमत्र भवति । तत्र यत्र प्रज्ञापकस्तिष्ठति ततो यदन्यत्र गम्यते तद् गमनम्, अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनम् , गत्वा प्रत्यागमने विधीयमाने गमनागमनम् ॥ २७६१ ॥ अथ वैरशब्दस्य निक्षेपमाह
नाम ठवणा दविए, खेत्ते काले य भाववेरे य ।
तं महिस-वसभ-बग्घा-सीहा नरएसु सिज्झणया ॥२७६२।। [नि.भा. ३३५९] नामवैरं स्थापनावैरं द्रव्यवैरं क्षेत्रवैरं कालवैरं भाववैरं चेति षड्विधं वैरम् । तत्र नाम-स्थापनावैरे सुगमे । द्रव्यवैरं तु यद् द्रव्यनिमित्तं गोत्रजादीनां वैरमुत्पद्यते । क्षेत्रवैरं यस्मिन् क्षेत्रे यस्य वा क्षेत्रस्य हेतो(रमुत्पद्यते । कालवैरं तु यस्मिन् काले वैरमुत्पद्यते, यावन्तं वा कालं वैरं वर्त्तते । भाववैरं तु पश्चाःनाह-"तं महिस" इत्यादि । 'तद्' इति भाववैरं "महिष-वृषभ" 25 इत्यादिना तु दृष्टान्तसूचा । स चायम्___ एगत्थ गामे गावीओ चोरेहिं गहियाओ । तओ जो गामस्स मयरगो सो कुढेण निग्गओ। अम्मियाओ गावीओ । जुद्धं संपलग्गं । चोराहिवो सेणावई महत्तरेण सह संपलग्गो । ते रुदज्झाणोवगया एकमेकं वहेउं मया पढमपुढवीए नारगा उववन्ना । तओ उज्वट्टा ते दो १ च्यते, पृषोदरादित्वाद् वैरशब्दसम्बन्धिनो रकारस्य लोपः । यद्वा न भा० ॥
२°म् । “वेररजं व त्ति अथवा का० ॥ ३ अथवा यः परेषां नृपतीनां ग्राम-नगरदाहादीनि करोति स खलु वैरोत्पादने रज्यत इति कृत्वा यत् तादृशं डमरं तद् वैरा भा० ॥
४ एवं:सूत्रे सद्योग्रहणादतीतमनागतं च वैरमुपलक्षणत्वाद् निवा° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org