SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वैराज्य प्रकृते सूत्रम् ३७ निकारणगमणम्मि, जे चिय आलंवणा उ पडिकुट्ठा । कजम्मि संकमंतो, तेहिं चिय सुज्झई जयणा ।। २७५८ ॥ 'निष्कारणे' अशिवाद्यभावे यद् गमनम्-अपान्तरालक्षेत्रपरित्यागेन क्षेत्रान्तरसङ्क्रमणं तत्र 'यान्येव' आचार्य-साधु-चैत्यवन्दनादीन्यालम्बनानि 'प्रतिकुष्टानि' प्रतिषिद्धानि, 'कार्ये' द्वितीयपदे ज्ञान-दर्शनादिविशुद्धिनिमित्तं सङ्क्रामन् 'तैरेव' आचार्यादिभिरालम्बनैः यतनायुक्तः 'शुद्ध्यति' अदोषभाग भवति ॥ २७५८ ॥ ॥ चारप्रकृतं समाप्तम् ॥ वै राज्य वि रु द्ध राज्य प्रकृ त म् 15 सूत्रम्10 नो कप्पइ निग्गंथाण वा निग्गंथीण वा वेरज-वि रुद्धरजंसि सजं गमणं सज्ज आगमणं सज गमणागमणं करित्तए । जो खलु निग्गंथो वा निग्गंथी वा वेरज-विरुद्धरजंसि सज्ज गमणं सजं आगमणं सजं गमणागमणं करेइ, करितं वा साइजइ, से दुहओ विइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ३७॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह चारो त्ति अइपसंगा, विरुद्धरजे वि मा चरिजाहि । इय एसो उवघाओ, वेरजविरुद्धसुत्तस्स ॥ २७५९ ॥ 20 अनन्तरसूत्रे हेमन्त-ग्रीप्मयो मानुग्रामं 'चारः' गमनं कत्तुं कल्पते इत्युक्तेऽतिप्रसङ्गतो विरुद्धराज्येऽपि वर्तमाने मा चारीदित्यभिप्रायेणेदं सूत्रमारभ्यते । एष वैराज्यविरुद्धराज्यसूत्रस्य 'उपोद्धातः' सम्बन्धः ॥ २७५९ ॥ अनेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वैराज्य-विरुद्धराज्ये 'सद्यः' तत्कालं गमनं सद्य आगमनं सद्यो गमनागमनं कर्तुम् । यः खलु निम्रन्थो वा निर्ग्रन्थी वा 23 वैराज्य-विरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति, कुर्वन्तं वा 'स्वादयति' अनुमोदयति, सः 'द्विधाऽपि' तीर्थकृतां राजश्व सम्बन्धिनीमाज्ञामतिक्रामन् 'आपद्यते' प्रामोति चातुर्मासिकं परिहारस्थानमनुद्धातिकम् , चतुर्गुरुकमित्यर्थः । इति सूत्रसङ्केपार्थः ।। १°वादिकारणाभावे का० ॥ २ °चार्य-साधु-चैत्यवन्दनादिभि का० ॥ ३ "एप सूत्रार्थः । अधुना नियुक्तिविस्तरः ।" इति चूगो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy