________________
-७७७
भाष्यगाथाः २७५१-५७ ] प्रथम उद्देशः । स्थास्यन्ति । आचार्याश्च तं ग्रामं व्यतीत्याग्रतो गताः, ततस्ते छिन्नायामाशायां वजन्तो यदनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नं सूरीणां प्रायश्चित्तम् । भैक्षं वा तत्र स्फिटितायां वेलायां न प्राप्येत, अत्यन्तपरिश्रान्ता वा मार्ग एवोपधि परित्यजेयुः । अकाले च पर्यटतां श्वान उपद्रवं कुर्युः, स्तेना वा तेषामुपधिं तानेव वाऽपहरेयुः, प्रत्यनीको वा तदानीं विजनं मत्वा हन्याद्वा मारयेद्वा, अवमानं वा स्वपक्षतः परपक्षतो वा भवेत् , 'अभोज्यगृहेषु वा' रजकादिसम्बन्धिषु । भिक्षां गृह्णीयुः तत्रैव वा तिष्ठेयुः, ततश्च प्रवचनविराधना । स्थण्डिलानि वा तत्र न भवेयुः, तेषामभावे संयमात्मविराधना । एवं ये यत्र दोषाः सम्भवन्ति ते तत्र योजयितव्याः ॥२७५५॥ अथ द्वितीयपदमाह
बिइयपए असिवाई, उवहिस्स उ कारणा व लेवो वा।।
बहुगुणतरं व गच्छे, आयरियाई व आगाढे ॥ २७५६ ॥ द्वितीयपदेऽशिवादीनि कारणानि विज्ञाय व्यतिव्रजेयुरपि । तत्र यदपान्तराले क्षेत्रं तदशिवगृहीतम् , आदिशब्दादवमौदर्य-राजद्विष्टादिदोषयुक्तं खाध्यायो वा तत्र न शुध्यतीत्यादिपरिग्रहः । उपधिः-वस्त्र पात्रादिरूपस्तत्र न लभ्यते, पुरोवर्तिनि तु ग्रामादौ लभ्यते, अतस्तस्य कारणात् । लेपो वा अग्रतोवर्तिनि प्रामे लभ्यते न तत्र । गच्छस्य वा बहुगुणतरं तत् क्षेत्रम् , श्वान-प्रत्यनीकाद्यभावाद् भिक्षात्रयवेलासद्भावाच्च । आचार्यादीनां वा प्रायोग्यं तत्र विद्यते; यद्वा 15 "आयरियाई व" ति सम्यक्त्वं ग्रहीतुकामाः केचिदाचार्याणां दर्शनं काहन्ति; आदिशब्दात् परप्रवादी वा कश्चिदुद्धोषणां कारयेत् , यथा- शून्याः परप्रवादा इत्यादि; ते चाचार्या वादलब्धिसम्पन्नाः अतस्तन्निग्रहार्थं गच्छेयुः । “आगाढे" ति आगाढयोगवाहिनां वा प्रायोग्यमर्वाग् न प्राप्यते, परस्मिन् प्रामे तु प्राप्यते । यद्वा आगाढं सप्तधा, तद्यथा-द्रव्यागाढं क्षेत्रागाढं कालागाढं भावागाढं पुरुषागाढं चिकित्सागाढं सहायागाढम् । तत्र द्रव्यागाढमेषणीयं द्रव्यं तत्र 20 न लभ्यते । क्षेत्रागाढं नाम तदतीव खलु(खुल)क्षेत्रम् , खल्पभैक्षदायकमित्यर्थः । कालागाढं तत् क्षेत्रं न ऋतुक्षमम् । भावागाढं ग्लानादिप्रायोग्यं तत्र न लभ्यते । पुरुषागाढमाचार्यादिपुरुषाणां तदकारकम् । चिकित्सागाढं वैद्यास्तत्र न प्राप्यन्ते । सहायागाढं सहायास्तत्र न सन्तीति ॥ २७५६ ॥
एएहि कारणेहिं, एक-दुगंतर तिगंतरं वा वि।
संकममाणो खेत्तं, पुट्ठो वि जओ नऽइकमइ ॥ २७५७॥ 'एतैः' अशिवादिभिः कारणैरेकं वा द्वे त्रीणि वा अपान्तरालक्षेत्राण्यतिक्रम्यापरं क्षेत्र सङ्कामन् पूर्वोक्तैर्देषैिः स्पृष्टोऽपि न दोषवान् भवति । 'यतः' यस्मात् तीर्थकराज्ञामसौ नातिकामति, यद्वा 'यतो नाम' यतनायुक्तः ॥ २७५७ ॥ १ ग्रामं मासकल्पयोग्यमपि व्यती कां० ॥ २०६ः, अतस्तं ग्रामं व्यतीत्याग्रेतनं गच्छेयुः । यद्वा उप° कां० ।। ३°मादौ सुलभतरः । लेपो भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org