________________
भाष्यगाथाः २७४५-५० ] प्रथम उद्देशः ।
दुस्संचर बहुपाणादि काउ वासासु जं न विहरिंसु ।
तस्स उ विवजयम्मी, चरंति अह सुत्तसंबंधो ॥ २७४८ ॥ वर्षासु कर्दमाकुलतया दुःसञ्चरं बहुप्राण-हरितादिसङ्कुलं वा मेदिनीतलं भवतीति कृत्वा यत् तदानीं न विहृतवन्तः, तत एव 'तस्य' वर्षावासस्य 'विपर्यये' ऋतुबद्धे काले सुसञ्चरमल्पप्राणजातीयं वा मत्वा 'चरन्ति' ग्रामानुग्रामं विहरन्ति । 'अथ' एष पूर्वसूत्रेण सहास्य : सूत्रस्य सम्बन्ध इति ॥ २७४८॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मयोरष्टसु ऋतुबद्धमासेषु 'चरितुं' ग्रामानुग्रामं पर्यटितुमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरःपुण्णे अनिग्गमें लहुगा, दोसा ते चेव उग्गमादीया।
10 दुबल-खमग-गिलाणा, गोरस उवहिं पडिच्छंति ॥ २७४९ ॥ यदि पूर्ण वर्षावासे ततः क्षेत्रान्न निर्गच्छन्ति ततश्चत्वारो लघुकाः । त एव चोद्गमाशुद्धिस्त्रीसमुत्थादयो दोषा ये मासकल्पप्रकृते (गा० २०२७) दर्शिताः । अपरे चामी दोषाः-- "दुब्बल'' इत्यादि । ये साधव आचाम्लेन 'दुर्बलाः' कृशीभूतशरीरास्ते 'कदा वर्षावासः पूरिप्यते ?' इत्येवं निर्गमनं प्रतीक्षमाणा यत् परितापनादिकमवाप्नुवन्ति तन्निप्पन्नं प्रायश्चित्तम् । 15 क्षपका वा विकृष्टतपोनिष्टप्तवपुषो निर्गमनं प्रतीक्षन्ते; ग्लानो वा अधुनोत्थितो दुःखं तत्र तिष्ठति, चतुर्मासादूर्द्धमप्यवस्थानेन क्षेत्रस्य चमढिततया तथाविधपथ्याद्यभावात् ; गोरसधातुको वा कश्चित् सिन्धुदेशीयः प्रव्रजितः सोऽपि गोरसाभावान्न तत्र स्थातुं शक्नोति; उपधिर्वा पूर्वगृहीतः परिक्षीणोऽतस्तमभिनवमुत्पादयितुं साधवो निर्गमनं प्रतीक्षन्ते; ततस्तेन विना यत् परिताप्यन्ते तन्निष्पन्नमनिर्गच्छतां प्रायश्चित्तम् ॥ २७४९ ॥ अथ निर्गच्छन्ति ततः किं भवति ? इत्याह
एए न होंति दोसा, बहिया सुलभं च भिक्ख उवही य । __ भवसिद्धिया उ वाणा, बिइयपय गिलाणमादीसु ॥ २७५० ॥ २ वर्षावासे पूर्णे - निर्गच्छताम् 'एते' अनन्तरोक्ता दोषा न भवन्ति । 'बहिश्च' बहिर्यामेष विहरतां भैक्षं सुलभं भवति, तेन च दुर्बल-क्षपकादीनामाप्यायना स्यात् । उपधिश्च बहिः, प्राप्यते । भवसिद्धिकाश्च सत्त्वा बोधमासादयन्ति । केचिद्वा तदानीमाचार्याणां दर्शनमभिलषन्ति तेषां सर्वविरत्यादिप्रतिपत्तिः । आज्ञा च भगवतां तीर्थकृतां कृता भवति। यत एवमतो र वर्षावासानन्तरं - निर्गन्तव्यम् । द्वितीयपदे ग्लानादिषु कारणेषु न निर्गच्छन्ति, आदिशब्दादवमौदर्यादिपरिग्रहः । अत्र च यतना यथा मासकल्पप्रकृते "चउभाग तिभागऽद्धे, १°णजातीयसङ्क भा० ॥ २°णः, बहिश्च तेषु दिवसेषु सुलभोऽसौ पश्चाद् दुर्लभो भवति, ततस्तेन विना भा० । "उवधी वा पुव्वगहितो परिक्खीणो, बहिता य तेहिं दिवसेहिं सुलभो पच्छा दुल्लभो, जं तेण विणा पाविहिंति तण्णिफणं ।" इति चूर्णी ॥
३-४ एतन्मध्यगतः पाठः कां. एव वर्तते ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org