________________
७७४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चारप्रकृते सूत्रम् ३६ विद्यया स्तनन्ति । यत्र च सर्पः समागत्य तिष्ठति तत्र तस्य सर्पस्य 'अपद्रावणं' विद्ययाऽन्यत्र नयनं कुर्वन्ति । यत्र च ग्रामस्वामी कुलानि वा अन्यानि सङ्क्रान्तानि तत्र भजना कर्तव्यायदि स ग्रामखामी कुलानि वा भद्रकाणि ततस्तत्रैव तिष्ठन्ति, अथ प्रान्तानि ततोऽन्यत्र गच्छन्ति । अथासौ ग्राम उत्थितः स्थण्डिलानां वा व्याघातः समजायत ततोऽन्यत्र ग्रामे 5 गच्छन्ति ॥ २७४४ ॥ अवमान-दुर्बलशय्ययोर्यतनामाह
इंदमहादी व समागतेसु परउत्थिएसु य जयंति ।
पडिवसभेसु सखित्ते, दुब्बलसेन्जाए देसूणं ॥ २७४५ ॥ इन्द्रमहोत्सवादौ वा बहुषु परतीर्थिकेषु समागतेषु खक्षेत्रे ये प्रतिवृषभप्रामास्तेषु अन्तरपल्लिकासु च भिक्षाग्रहणाय यतन्ते । अथ तेष्वपि न संस्तरन्ति ततोऽन्यत्र गच्छन्ति । 'दुर्बल10 शय्यायां' वर्षेण तीम्यमानतया वसतौ दुर्बलायां सञ्जातायां स्थूणां दद्यात् ॥ २७४५ ॥ अथ वसतिप्रमार्जने विधिमाह
दोन्नि उ पमजणाओ, उडुम्मि वासासु तइय मज्झण्हे ।
वसहिं बहुसों पमजेण, अइसंघट्टऽन्नहिं गच्छे ॥ २७४६ ॥ वसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रामार्जने कर्तव्ये, तद्यथा-पूर्वाहेऽपराह्ने च । वर्षासु पुनस्तृ15 तीया प्रमार्जना मध्याह्ने विधेया । अथ कुन्थुप्रभृतिभिस्त्रसप्राणैः संसक्ता वसतिस्तत ऋतुबद्धे वर्षावासे च यथोक्तप्रमाणादतिरिक्तमपि बहुशः प्रमार्जनं कुर्यात् । अथ बहुशः प्रमार्जने त्रसप्राणानामतीव सङ्घट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र ग्रामे गच्छेयुः ॥ २७४६ ॥ गच्छतां च मार्गे यतनामाह
उत्तण ससावयाणि य, गंभीराणि य जलाणि वजेंता ।
तलियरहिया दिवसओ, अन्भासतरे वए खेत्ते ॥ २७४७ ॥ __'उत्तॄणानि नाम' ऊर्धीभूतानि तृणानि दीर्घाणीति यावत् तानि यत्र मार्गे भवन्ति, 'सश्वा. पदानि च' सिंह-व्याघ्रादिश्वापदोपेतानि यत्र तृणानि भवन्ति, 'गम्भीराणि च' अस्ताघानि जलानि यत्र भवन्ति, तान् मार्गान् वर्जयन्तः 'तलिकारहिताः' अनुपानका दिवसतो गच्छन्ति न रात्रौ । यच्चाभ्यासतरम्-अतिप्रत्यासन्नं क्षेत्रं तत्र व्रजन्ति ॥ २७४७ ॥ 25 सूत्रम्
कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु
चारए ३६ ॥ अस्य सम्बन्धमाह१ 'स्वक्षेत्रे' सक्रोशयोजनप्रमाणे ये प्रति का० ॥
२ जह, अइ° ता० ॥ ३ एतदने ग्रन्थानम्-३५०० इति मो० ले० ॥ ४ एवमादौ कारणे वर्षास्वप्यन्यं ग्रामं गच्छतां मार्गे का ॥ ५ उद्-ऊोभूतानि दीर्घाणीति यावद् यानि तृणानि तानि उत्तृणानि उच्यन्ते, तानि च यत्र मार्गे भवन्ति तेन न गच्छन्ति । 'सश्वा भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org