________________
५७०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चारप्रकृते सूत्रम् ३५
चा र प्रकृतम्
15
सूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा वासावासासु
चारए ३५॥ अस्य सम्बन्धमाह
अहिगरणं काऊण व, गच्छइ तं वा वि उवसमेउं जे । . पुव्वं च अणुवसंते, खामेस्सं वयइ संबंधो ॥ २७३२ ॥
अधिकरणं कृत्वा वाशब्दः पक्षान्तरद्योतकः कषायानुबद्धमना अन्यत्र ग्रामादौ गच्छति । यद्वा 'तत्' अधिकरणमुत्पन्नं श्रुत्वा कश्चिद् धर्मश्रद्धावान् तदुपशमयितुमागच्छति । “जे"10 शब्दः पादपूरणे । यदि वा पूर्वमनुपशान्तः सन्नन्यत्र ग्रामादौ गतः, तत्र च स्वयमन्योपदेशेन
वा 'क्षमयिष्याम्यहं तं साधुम्' इतिपरिणाममुपगतो भूयस्तत्रैव ग्रामे व्रजति । तच गमनमनेन सूत्रेण वर्षासु प्रतिषिध्यत इत्ययं पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥ २७३२ ॥ अमुमेव तृतीयसम्बन्धप्रकारं व्याख्याति
अहवा अखामियम्मि त्ति कोइ गच्छेज्ज ओसवणकाले।
सुभमवि तम्मि उ गमणं, वासावासासु वारेइ ॥ २७३३ ॥ अथवाऽनुपशान्त एवान्यत्र गतः, तत्र च वर्षासु पर्युषणाकाले समायाते सति 'अधिकरणं मया न क्षमितम् , अतः कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं शुद्धिमेष्यति ?' इति परिभाव्य यत्र द्वितीयः साधुश्चतुर्मास्यां स्थितोऽस्ति तत्राधिकरणं क्षमयितुं कश्चिद् गच्छति, तच्च तदीयं तत्र गमनं शुभमपि वर्षवर्षासु अनेन सूत्रेण वारयतीति ॥ २७३३ ॥ 20 अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षांपलक्षिता वर्षा वर्षवर्षास्तासु 'चरितुं' "चर गति-भक्षणयोः” इति धातुरत्र गत्यर्थो गृह्यते, ग्रामानुग्रामं पर्यटितुमित्यर्थः । यद्वा भक्षणार्थोऽप्यत्र गृह्यते, तथाहि-भक्षणं-समुद्देशनं तच्च यथा ऋतुबद्धे साधूनां तथा वर्षासु कर्तुं न कल्पते, तदानीं हि चतुर्थभक्तादिप्रत्याख्यानपरायणैर्भवितव्यम् , विकृतीनां चाभीक्ष्णं ग्रहणं न कर्तव्यमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
वासावासो दुविहो, पाउस वासा य पाउसे गुरुगा।
वासासु होति लहुगा, ते च्चिय पुण्णे अणितस्स ।। २७३४ ॥ वसन्ति-एकत्र ग्रामादौ तिष्ठन्ति लोकाः प्रायोऽस्मिन्निति वासः, वर्षा एव वासो वर्षावासः । स द्विधा-प्रावृड् वर्षारात्रश्च । तत्र श्रावण-भाद्रपदमासौ प्रावृडुच्यते, अश्विन-कार्तिको तु वर्षारात्रः । आह च चूर्णिकृत्
१ एतन्मध्यगः पाठः कां• एव वर्त्तते ॥ २ °सु ओसवणं-कषायाणां व्यवशमनं तस्य कालः पर्युषणापर्वसमय इत्यर्थः तस्मिन् समायाते कां ॥
26.
Jain Education International
For Private & Personal use only
www.jainelibrary.org