________________
माष्यगाथाः २७२५-३१]
प्रथम उद्देशः ।
७६९
पद्मराग- वज्र-वैडूर्यादिमणयः प्रधानाः, अप्कायेषु क्षीरोदकादिपानीयानि 'वृक्षेषु' वनस्पतिषु पुष्प - फलादीनि प्रधानानि ॥ २७२७ ॥
गतः प्रधानपरः । अथ भावपरो व्याख्यायते — भावः - क्षायोपशमिका दिस्तदपेक्षमा पर:भावान्तरवर्ती भावपरैः । स च इहौद किमावर्ती गृह्यते । तथा चाहआढणमभुवाणं, वंदण संभुंजणा य संवासो ।
या जो कुणई, आराहण अकुणओ नत्थि ।। २७२८ ।। अकसायं निव्वाणं, सव्वेहि वि जिणवरेहिँ पन्नत्तं । सो लब्भइ भावपरो, जो उवसंते अणुवसंतो ॥। २७२९ ॥
आदरो अभ्युत्थानं वन्दनं सम्भोजनं संवासश्चेत्येतानि पदानि य उपशान्तो भूत्वा करोति तस्याराधना अस्ति, यस्त्वेतानि न करोति तस्याराधना नास्ति । एतेन "जो उवसमइ तस्स 10 अस्थि आराहणा" इत्यादिकः सूत्रावयवो व्याख्यातः । अथ किमर्थमादरादिपदानामकरणे आराधना नास्ति ? इत्याह – 'अकषायं ' कषायाभावसम्भवि 'निर्वाण' सकलकर्मक्षयलक्षणं सर्वैरपि जिनवरैः प्रज्ञप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त आदरादिपदानामकणेन सकषायः स भावपरो लभ्यते, औदयिकभाववर्त्तित्वात् ॥ २७२८ ॥ २७२९ ॥ अथाचार्यस्तमुपशान्तसाधुं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नाह -
सो वट्ट ओदइए, भावे तं पुण खओवसमियम्मि |
जह सो तुह भावपरो, एमेव य संजम-तवाणं ॥ २७३० ॥ भोभद्र ! 'सः' द्वितीयः साधुरद्याप्यौदयिके भावे वर्त्तते', स्वं पुनः क्षायोपशमिके भावे वर्त्तसे । अतो यथाऽसौ 'तव' त्वदपेक्षया भावपरस्तथा संयम - तपोभ्यामप्ययं परः - पृथग्भूत इति । अतस्त्वया न काचित् तदीया चिन्ता विधेया ॥ २७३० ॥ द्वितीयपदे कुर्यादप्यधिकरणम्, यत आह
१ °रः । अत्र चानेनैवाधिकारः, शेषास्तु शिष्यमतिविकाशनार्थे प्ररूपिताः । स च भावपरः इहौदयिक' भा० ॥
२ °ते, अतः स्वेच्छयाssदरादीनि पदानि कुर्याद्वा न वेति । स्वं कां
For Private & Personal Use Only
5
Jain Education International
15
खेत्ताद कोविओवा, अनलविर्गिचट्टया व जाणं पि ।
अहिगरणं तु करेत्ता, करेज सव्वाणि वि षयाणि ॥ २७३१ ॥ क्षिप्तचित्तः आदिशब्दाद् दृप्तचित्तो यक्षाविष्टो वा अनात्मवशत्वादधिकरणं कुर्यात् । 'अकोविदो वा' अद्याप्यपरिणतजिनवचन: शैक्षः सोऽप्यज्ञत्वादधिकरणं विदध्यात् । मद्वा 'जान - 25 न्नपि' गीतार्थोऽपीत्यर्थः अनलस्य - प्रव्रज्याया अयोग्यस्य नपुंसकादेः कारणे दीक्षितस्य तत्कारपरिसमाप्तौ विवेचनार्थं - परिष्ठापनाय तेन सहाधिकरणं करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात् ॥ २७३१ ॥
॥ व्यवशमनप्रकृतं समाप्तम् ॥
20
www.jainelibrary.org