________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते सू० ३४ कालक्रमपरः । भावक्रमपरः पुनरेवम्-एकगुणकालकाद् द्विगुणकालकः, द्विगुणकालकात् त्रिगुणकालकः, एवं यावदसोयगुणकालकादनन्तगुणकालको भावक्रमपरः । एवं नील-लोहितहारिद्र-शुक्लरूपेषु शेषेष्वपि चतुर्पु वर्णपु, सुरभि-दुरभिलक्षणे च गन्धद्वये, तिक्त-कटु-कषायाऽम्ल-मधुरात्मके च रसपञ्चके, गुरु-लघु-मृदु-कठिन-स्निग्ध-रूक्ष-शीतोष्णलक्षणे च स्पर्शाष्टके ध्यथाक्रमं भावक्रमपरता मावनीया ॥ २७२४ ॥ अथ बहुपरं भावयति
जीवा १ पुग्गल २ समया ३, दव्य ४ पएसा य ५ पजवा ६ चेव ।
थोबा १ गंता २ णंता ३, विसेसमहिया ४ दुवेऽणंता ५-६ ॥ २७२५ ॥ इह पूर्वार्द्ध-पश्चार्द्धपदानां यथाक्रम योजना कार्या । तद्यथा - 'जीवाः' संसारि-मुक्तभेदभिन्नास्ते सर्वस्तोकाः, जीवेभ्यः पुद्गला अनन्तगुणाः, पुद्गलेभ्यः समया अनन्तगुणाः, समयेभ्यो 10द्रव्याणि विशेषाधिकानि, द्रव्येभ्यः प्रदेशा अनन्तगुणाः, प्रदेशेभ्यः पर्याया अनन्तगुणाः ।
उक्तश्च व्याख्याप्रज्ञप्तौ
एएसि णं मंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सवदवाणं सबपएसाणं सवपज्जवाण य कमरे कतरेहितो अप्म वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सबथोवा जीवा, पोग्गला अणंतगुणा, अद्धासमया अणंतगुणा, सबदबा विसेसाहिया, सबपएसा अणंतगुणा, 15 सबपज्जवा अणंतगुणा (श० २५ उ० ३ सू० ७३३)।
अत्रामीषामित्थमल्पबहुत्वे हेतुभावना भगवतीटीकायां वृद्धैरुपदर्शिताऽऽस्ते, अतस्तदर्थिना सैवावलोकनीया ॥ २७२५ ॥ अथ प्रधानपरमाह
दुव्वे सचिचमादी, सचित्तदुपएसु होइ तित्थयरो।
- सीहो चउप्पएसुं, अपयपहाणा बहुविहा उ ॥ २७२६ ॥ 20 प्रधान एव परः प्रधानपरः, स च द्विधा-द्रव्यतो भावतश्च । तत्र 'द्रव्ये' द्रव्यतस्त्रिधा
सचित्तादि, आदिशब्दाद् मिश्रोऽचित्तश्च । तत्र सचित्तप्रधानस्त्रिधा–द्विपद-चतुष्पदा-ऽपदभेदात् । तत्र द्विपदेषु तीर्थकरः प्रधानो भवति, चतुष्पदेषु सिंहः प्रधानो भवति, अपदेषु बहुविधाः सुदर्शनाभिधानजम्बूवृक्षप्रभृतयः पनसादयो वा प्रधानाः । अचित्तः प्रधानपरोऽनेकधा, तद्यथा-धातुषु सुवर्णम् , वस्त्रेषु चीनांशुकम् , गन्धद्रव्येषु गोशीर्षचन्दनमित्यादि । 25 मिश्रप्रधानपराणि तु सुवर्णकटकाद्यलङ्कृतविग्रहाणि तीर्थकरादिद्रव्याण्येव द्रष्टव्यानि ॥२७२६॥ भावप्रधानपरमाह
वण्ण-रस-गंध-फासेसु उत्तमा जे उ भू-दग-वणेसु ।
मणि-खीरोदगमादी, पुष्फ-फलादी य रुक्खेसु ॥ २७२७ ॥ "वष्य-रस-गंध-फासेसु" ति तृतीयार्थे सप्तमी, ततो वर्णेन रसेन गन्धेन स्पर्शेन वा 374 वर्णादिलक्षणैर्भावैरित्यर्थः । ये 'भू-दक-वनेषु' पृथिवीकाया-ऽप्काय-वनस्पतिकायेषु उत्तमाने भावप्रधानपराः । तानेव पश्चा?नोदाहरति-"मणि-खीरोदग" इत्यादि । पृथिवीकायेषु १°ताऽस्ति अ° भा० कां०॥
२प्रधानपरो द्विधा-द्रव्य भा० ॥ ३ - एतदन्तर्गतः पाठः कां० एव वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org