SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २७१८-२४] प्रथम उद्देशः । ७६७ ऽप्यनन्ताणुकपर्यन्ताः स्कन्धाः परस्परं तुल्यप्रदेशसङ्ख्याकास्तद्रव्यपराः, विसदृशप्रदेशसङ्ख्याकास्त्वन्यद्रव्यपरा मन्तव्याः, यावत् सर्वोत्कृष्टाणुको महास्कन्धः ॥ २७२१ ॥ - अथ क्षेत्र-कालपरौ प्रतिपादयति एगपएसोगाढादि खेलें एमेव जा असंखेज्जा । एगसमयाइठिइणो, कालम्मि वि जा असंखेजा ।। २७२२ ॥ 'क्षेत्रे' क्षेत्रविषयेऽपि परद्वारे चिन्त्यमाने 'एवमेव' तत्क्षेत्रपरा-ऽन्यक्षेत्रपरभेदेन पुद्गला एकप्रदेशावगाढादयोऽसङ्ख्येयप्रदेशावगाढं यावद् द्रष्टव्याः । तद्यथा-एकप्रदेशावगाढः परमाणुः स्कन्धो वा एकप्रदेशावगाढस्य तत्क्षेत्रपरः, द्वित्रिप्रदेशावगाढादयः पुनस्तस्यान्यक्षेत्रपराः; तथा द्विप्रदेशावगाढः स्कन्धो- द्विप्रदेशावगाढस्य स्कन्धस्य तत्क्षेत्रपरः, एकव्यादिप्रदेशावगाढास्तु तस्यान्यक्षेत्रपराः; एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । कालेऽप्येकसमयादिस्थितयः पुद्गला 10 यावदसङ्ख्येयसमयस्थितयस्तावत् तत्कालपरा-ऽन्यकालपरभेदाद्वक्तव्याः-तत्रैकसमयस्थितिकानां पुद्गलानामेकसमयस्थितिकास्तत्कालपराः, द्विव्यादिसमयस्थितिकाः पुनरन्यकालपराः; एवं यावदसङ्ख्येयोत्सर्पिण्यवसर्पिणीगतासङ्ख्येयसमयस्थितिकानां पुद्गलानां तावत्सङ्ख्याकसमयस्थितिका एव तत्कालपराः, शेषास्त्वेकसमयस्थितिकादयः सर्वेऽप्यन्यकालपरा अवसातव्याः ॥ २७२२॥ अथादेशपरं व्याचष्टे-- 15 भोअण-पेसणमादीसु एगखित्तट्ठियं तु जं पच्छा। __ आदिसइ भुंज कुणसु व, आएसपरो हवइ एस ॥ २७२३ ॥ भोजन-प्रतीतं प्रेषणं-व्यापारणं तदादिषु कार्येषु कञ्चन पुरुषमेकस्मिन् क्षेत्रे स्थितमपि 'पश्चात्' पर्यन्ते आदिशति-यथा 'भुक्ष्व' भोजनं विधेहि, 'कुरु वा' कृष्यादिकर्म विधेहि, एष आदेशपरो भवति, आदेश:-आज्ञपनं तदाश्रित्य परः-पाश्चात्य आदेशपर इति व्युत्पत्तेः 20 ॥ २७२३ ॥ अथ क्रमपरमाह दव्वाइ कमो चउहा, दव्वे परमाणुमाइ जाऽणंतं । एगुत्तरवुड्डीए, विवड्डियाणं परो होइ ॥ २७२४ ॥ - क्रमः परिपाटीरित्येकोऽर्थः, तमाश्रित्य परः क्रमपरः । स चतुर्दा-द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र 'द्रव्ये' द्रव्यतः परमाणुमादौ कृत्वा अनन्तप्रदेशिकस्कन्धं यावदेकोत्तरप्रदेशवृद्ध्या 25 वर्धितानां पुद्गलद्रव्याणां यो यदपेक्षया परः स तस्माद् द्रव्यक्रमपरो भवति, तद्यथा-परमाणुपुद्गलाद् द्विप्रदेशिकस्कन्धः, द्विप्रदेशिकस्कन्धात् त्रिप्रदेशिकस्कन्धः, एवं यावदसङ्ख्येयप्रदेशिकस्कन्धादनन्तप्रदेशिकस्कन्धो द्रव्यक्रमपरः । क्षेत्रक्रमपरोऽप्येवमेव; नवरमेकप्रदेशावगाढा द्विप्रदेशावगाढः, द्विप्रदेशावगाढात् त्रिप्रदेशावगाढः, एवं यावत् सङ्ख्येयप्रदेशावगाढादसङ्ख्येयप्रदेशावगाढः क्षेत्रक्रमपरः । कालक्रमपरस्त्वेवम्-एकसमयस्थितिकाद् द्विसमयस्थितिकः, 36 द्विसमयस्थितिकात् त्रिसमयस्थितिकः, एवं यावत् सङ्ख्येयसमयस्थितिकादसङ्ख्येयसमयस्थितिकः १ एतचिह्नान्तर्गतः पाठः भा० एव वर्तते ॥ २ कारणेषु क° त० से. मो० ले.॥ ३°पर उच्यते, आदे° भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy