________________
७६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते सू० ३४ प्रेक्षसे । ततश्चात्मानमुद्दध्य यदि मारयति तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्कामति ततो मूलम् । तस्माद् द्वावप्यनुशासनीयौ ॥ २७१७॥
अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीयः, तेन चोपशान्तेन गत्वा स खापराधप्रतिपत्तिपुरस्सरं क्षामितः परमसौ नोपशाम्यति । आह कथमेतदसौ जानाति 6 यथाऽयं नोपशान्तः ? उच्यते-यदा वन्द्यमानोऽपि न वन्दनकं प्रतीच्छति, यदि वाऽवमरत्नाधिकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोति ? इत्याह
उवसंतोऽणुवसंतं, तु पासिया विनवेइ आयरियं ।
तस्स उ पण्णवणट्ठा, निक्खेवों परे इमो होइ ॥ २७१८॥ 10 उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वाऽऽचार्य विज्ञपयति-क्षमाश्रमणाः ! उपशान्तोऽहम् परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थ परनिक्षेपं कुर्वन्ति । स च परनिक्षेपः 'अयं' वक्ष्यमाणो भवति ॥ २७१८ ॥ तमेवाह
नाम ठवणा दविए, खेत्ते काले तदनमन्ने अ । [उ.नि. ३८५]
आएस कम बहु पहाण भावओ उ परो होइ ॥ २७१९ ॥ 15 नामपरः स्थापनापरो द्रव्यपरः क्षेत्रपरः कालपरः । एते च द्रव्यपरादयः प्रत्येक द्विधा,
तद्यथा-"तदन्नमन्ने य" ति तद्रव्यान्योऽन्यद्रव्यान्यश्च, तद्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तरक्षेत्रपरोऽन्यक्षेत्रपरश्च, तत्कालपरोऽन्यकालपरश्च । तथाऽऽदेशपरः क्रमपरो बहुपरः प्रधानपरो भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः ॥ २७१९॥
अथास्या एवं भाष्यकारो व्याख्या कर्तुकामो नाम-स्थापने क्षुण्णत्वादनादृत्य ज्ञशरीर-भव्य20 शरीरव्यतिरिक्तं द्रव्यपरं तावदाह
परमाणुपुग्गलो खलु, तद्दव्यपरो भवे अणुस्सेव ।
अनद्दव्वपरो खलु, दुपएसियमाइणो तस्स ॥ २७२०॥ द्रव्यपरो द्विधा, तद्यथा-तद्रव्यपरोऽन्यद्रव्यपरश्च । तंत्र 'अणोः' परमाणु-( ग्रन्थानम्७००० । सर्वग्रन्थानम्-१९२२०) पुद्गलस्यापरः परमाणुपुद्गलः परतया चिन्त्यमानस्तद्रव्य25 परो भवति । 'तस्यैव' परमाणुपुद्गलस्य द्विप्रदेशिकादयः स्कन्धाः परतया चिन्स्यमाना अन्यद्रव्यपरा भवन्ति ॥२७२० ॥
एमेव य खंधाण वि, तद्दव्यपरा उ तुल्लसंघाया।
जे उ अतुल्लपएसा, अणू य तस्सऽन्नदव्वपरा ॥ २७२१॥ 'एवमेव च' परमाणुपुद्गलवद् व्यणुकप्रभृतीनां स्कन्धानामपि ये 'तुल्यसङ्घाताः' परस्परं समा30 नप्रदेशसङ्ख्याकाः स्कन्धास्ते तद्रव्यपराः, ये पुनः 'अतुल्यप्रदेशाः' विसदृशप्रदेशसङ्ख्याकाः स्कन्धाः 'अणवश्च' एकाणुकास्ते सर्वेऽप्यन्यद्रव्यपरा भवन्ति । तद्यथा-व्यणुकस्कन्धो व्यणुकस्कन्धस्य तद्रव्यपरः, त्र्यणुकादयस्तु स्कन्धाः परमाणवश्च तस्यान्यद्रव्यपराः; एवं व्यणुकादयो
तत्र परमाणुपुद्गलः खल्वपरस्य 'अणोरेव' परमाणुपुद्गलस्यैव परतया कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org