________________
भाष्यगाथाः २७१२-१७] प्रथम उद्देशः ।
७६५ — यदर्जितं शमीसम्बन्धिभिः खल्लकैः–पत्रपुटैस्तपो-नियम-ब्रह्मयुक्तैः तदिदानीं शाकपत्रैः परित्यजन् 'पश्चात्' परित्यागकालादूई परितप्यमानो ज्ञास्यसि, यथा-दुष्ठु मया कृतं यच्चिरसश्चितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं परिव्राजकेण द्रमक उपालब्धः । अथाचार्यस्तावधिकरणकारिणावुपालभते-आर्याः ! यच्चारित्रं कनकरसस्थानीयं तपो-नियम-ब्रह्मचयमयैः शमीखल्लकैरर्जितं परीषहोपसर्गादिश्रममगणयद्भिश्चिरात् कथं कथमपि मीलितं तदिदानी । शाकपत्रसदृशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाः स्वयमेव ज्ञास्यथ । यथा-हा! बहुकालोपार्जितेन संयमकनकरसेन तुम्बकस्थानीयं खजीवं बहुपूर्ण कृत्वा पश्चात् कलहायमानः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्यायमात्मा रिक्तीकृतः, शिरस्तुण्डमुण्डनादिश्च प्रत्रज्याप्रयासो मुधैव विहित इति ॥ २७१४ ॥ आह कथमेकमुहूर्तभाविनाऽपि क्रोधादिना चिरसञ्चितं चारित्रं क्षयमुपनीयते ? उच्यते
10 जं अजियं चरित्तं, देखणाए वि पुष्वकोडीए ।
तं पि कसाइयमेत्तो, नासेइ नरो मुहुत्तेण ॥ २७१५॥ यदर्जितं चारित्रं 'देशोनयाऽपि' अष्टवर्षन्यूनयाऽपि पूर्वकोट्या तदपि, आस्तामल्पतरकालोपार्जितमित्यपिशब्दार्थः, 'कषायितमात्रः' उदीर्णमात्रक्रोधादिकषाय इत्यर्थः 'नाशयति' हारयति 'नरः' पुरुषः 'मुहूर्तेन' अन्तर्मुहूर्तेनेति भावः । यथा प्रभूतकालसञ्चितोऽपि महान् तृणराशिः 15 सकृत्मज्वालितेनाप्यमिना सकलोऽपि भस्मसाद भवति, एवं क्रोधानलेनापि सकृदुदीरितेन चिरसश्चितं चारित्रमपि भस्मीभवतीति हृदयम् ॥ २७१५ ॥ एवमाचार्येण सामान्यतस्तयोरनुशिष्टितव्या, न त्वेकमेव कञ्चन विशेष्य भणनीयम् । यत आह
आयरिय एगु न भणे, अह एगु निवारि मासियं लहुगं।
राग-दोसविमुक्को, सीयघरसमो उ आयरिओ ॥ २७१६ ॥ 20 आचार्यो नैकमधिकरणकारिणं 'भणति' अनुशास्ति । अथाचार्य एकमेव 'निवारयति' अनुशास्ति न द्वितीयं ततो मासिकं लघुकमापद्यते, असामाचारीनिष्पन्नमिति भावः । तस्मादाचार्यों राग-द्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम-वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम् , तच्च वर्षासु निवातप्रवातं शीतकाले सोष्मं ग्रीष्मकाले शीतलम् । यथा च तच्चक्रवर्तिनः सर्व क्षम तथा द्रमकादेरपि प्राकृतपुरुषस्य तत् सर्व क्षममेव भवति, एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् 25 ॥ २७१६ ॥ अथ विशेषं करोति तत इमे दोषाः
वारेइ एस एयं, ममं न वारेइ पक्खरागेणं ।
बाहिरभावं गाढतरगं च मं पेक्खसी एकं ॥२७१७॥ एष आचार्यः 'आत्मीयोऽयम्' इति बुद्ध्या अमुं वारयति, मां तु परबुद्ध्या पश्यन्न वारयति, एवं पक्षरागेण क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावं गच्छति । यद्वा सोऽननुशिष्यमाणो 30 गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्य परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया १ लमयैः तदुपचारसंयुक्तरित्यर्थः तदिदा का० ॥ २-३ °नुशास्यमा भा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org