SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ७६४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ व्यवशमनपकृते सू० ३४ एषा ज्ञानपरिहाणिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्ये च दर्शनपरिहाणिः । यथा च क्रोधादीनां कषायाणां वृद्धिस्तथा 'चरणेऽपि' चारित्रस्य परिहाणिर्भवति, विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं भवतीत्यर्थः ॥ २७११ ॥ एतच्च व्यवहारमाश्रित्योक्तम् । निश्चयतस्तु अकसायं खु चरित्तं, कसायसहितो न संजओ होइ। साहूण पदोसेण य, संसारं सो विवड्ढेइ ॥ २७१२॥ खुशब्दस्यैवकारार्थत्वाद् ‘अकषायमेव' कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम् । अतो निश्चयनयाभिप्रायेण कषायसहितः संयत एव न भवति, चारित्रशून्यत्वात् । तथा साधूनामुपरि यः प्रद्वेषस्तेनासौ साधिकरणः सन् संसारं वर्द्धयति, दीर्घतरं करोतीति भावः । 10 यत एते दोषास्तत उपेक्षा न विधेया ॥ २७१२ ॥ किं पुनस्तर्हि कर्त्तव्यम् ? इत्याह आगाढे अहिगरणे, उवसम अवकडणा य गुरुवयणं । उवसमह कुणह ज्झायं, छड्डणया सागपत्तेहिं ॥ २७१३ ॥ 'आगाढे' कर्कशेऽधिकरणे उत्पन्ने सति द्वयोरप्युपशमः कर्त्तव्यः । कथम् ? इत्याह-कलहायमानयोस्तयोः पार्थस्थितैः साधुभिः 'अपकर्षणम्' अपसारणं कर्त्तव्यम् । गुरुभिश्चोपशमना16 र्थमिदं वचनमभिधातव्यम्-आर्याः ! उपशाम्यतोपशाम्यत, गाथायामनुक्तमपि द्विवचनं प्रक्रमाद् दृश्यम् , अनुपशान्तानां कुतः संयमः ? कुतो वा खाध्यायः ?, तस्मादुपशमं कृत्वा खाध्यायं कुरुत, किमेवं द्रमकवत् कनकरसस्य शाकपत्रैः 'छर्दनां' परित्यागं कुरुथ ? ॥२७१३।। कः पुनरयं द्रमकः ? उच्यते जहा एगो परिवायगो दमगपुरि चिन्तासोगसागरावगाढं पासत्ति, पुच्छति य–किमेवं 20 चिंतापरो? । तेण से सम्भावो कहितो 'दारिदाभिभूतो मि' ति । तेण भणितं-इस्सरं तुम करेमि, जतो नेमि ततो गच्छाहि, जं च भणामि तं सचं कायवं । ताहे ते संबलं घेत्तुं पचयनिगुंजं पविट्ठा । परिवायगेण य भणितो--एस कणगरसो सीत-वाता-ऽऽतव-परिस्समं अगणिन्तेहिं तिसा-खुधावेयणं सहतेहिं बंभचारीहिं अचित्तकंद-मूल-पत्त-पुप्फ-फलाहारीहिं समीपत्तपुडएहिं भावतो अरुस्समाणेहिं घेत्तबो, एस से उवचारो । तेण दमगेण सो कणगरसो उव25 चारेण गहितो', तुंबयं भरितं । ततो निग्गता । तेण परिबायगेण भणितं-सुरुटेण वि तुमे एस सागपत्तेण न छड्डिययो । ततो सो परिचायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणइ-मम पभावेण ईसरो भविस्ससि । सो य पुणो पुणो भन्नमाणो रुटो भणति-जं तुज्झ पसाएण ईसरत्तणं तेण मे न कजं । तं कणगरसं सागपत्तेण छड्डेति । ताहे परिवाय गेण भन्नति–हा हा दुरात्मन् ! किमेयं तुमे कयं ?। 30 जं अज्जियं समीखल्लएहिं तव-नियम-चभमइएहिं । तं दाणि पच्छ नाहिसि, छडिंतो सागपत्तेहिं ॥ २७१४ ॥ RA» एतन्मध्यगतः पाठः कां० एव वर्तते ॥ २°तो, कडुयदुद्धियं भरि' मा Private & Personal use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy