SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ साप्यगाथाः २७०६-११.] प्रथम उद्देशः । ૬૨ युध्येताम्, ततश्च परम्परया राजकुलज्ञाते सञ्जाते सति स राजादिस्तेषां साधूनां बन्धनं वा आम-नगरादेर्निष्काशनं वा कटकमर्दं वा कुर्यात् ॥ २७०७॥ किञ्चान्यत्– ताम्रो भेदो असो, हाणी दंसण- चरित्त नाणाणं । साहुपदोसो संसारवणो साहिकरणस्स ।। २७०८ ॥ तापो भेदोऽयशो हानिर्दर्शने - ज्ञान- चारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्तीति नियुक्तिगाथा - समासार्थः ॥ २७३८ ॥ ८. अथैनामेव गाथां विवृणोति - अइभणिय अभणिए वा, तावो भेदो उ जीव चरणे वा । रूवसरिसं न सीलं, जिम्हं व मणे अयस एवं ॥ २७०९ ॥ तापो. द्विधा - प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति - धिग् मां येन तदानीं 10 स साधुर्बहुविधैरसदभ्याख्यानैरभ्याख्यातः इत्थमित्थं चाक्रुष्टः, एष प्रशस्तस्ताप उच्यते । अथ अभणितं-न तथाविधं किमपि तस्य सम्मुखं भणितं ततश्चिन्तयति - हा ! मन्दभाग्यो विस्मर शोsहं यद् मया तदीयं जात्यादिमर्मनिकुरुम्बं न प्रकाशितम्, एष अप्रशस्तस्तापो मन्तव्यः । तथा 'भेदो नाम ' कलहं कृत्वा जीवितभेदं चरणभेदं वा कुर्युः, पश्चात्तापतप्तचेतसो वैहायसादिमरणमभ्युपगच्छेयुः उन्निष्क्रमणं वा कुर्युरिति भावः । तथा लोको ब्रूयात् – अहो ! अमीषां 15 श्रमणानां 'रूपसदृशं' यादृशं बहिः प्रशान्ताकारं रूपमवलोक्यते तादृशं 'शीलं ' मनःप्रणिधानं नास्ति । यद्वा - किं मन्ये 'जि' लज्जनीयं किमप्यनेन कृतं येनैवं प्रम्लानवदनो दृश्यते ! | एवमादिकमयशः समुच्छलति ॥ २७०२ ॥ * अक्कुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो । एयर सूयएहिं व, रायादीसिडें गहणादी || २७१० ॥ 20 जकार-मकारादिभिर्वचैनैराकुष्टे 'ताडिते वा' चपेटा-दण्डादिभिराहते सति' ' पक्षापक्षि' पर - स्परपक्षपरिग्रहेण साधूनां कलहे जाते सति गणभेदो भवति । तथा तयोः पक्षयोर्मध्यादेकतरपक्षेण राजकुलं गत्वा 'शिष्टे' कथिते सति 'सूचकैर्वा' राजपुरुषविशेषै राजादीनां ज्ञापिते ग्रहणा - ssकर्षणादयो दोषा भवन्ति ॥ २७१० ॥ वत्तकलहो वि न पढइ, अवच्छलत्ते य दंसणे हाणी । जह कोहाइविवडी, तह हाणी होइ चरणे वि ॥ २७११ ॥ 'वृत्तकलहोऽपि ' कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसो वा यन्न पठति १त् । एवं च देवतास्थानीयेन तीर्थकरेण निषिद्धामुपेक्षां कुर्वाणेष्वाचार्य प्रभृतिषु वनखण्डस्थानीयस्य गच्छस्य पद्मसरःस्थानीयस्य च संयमस्य विनाशः सञ्जायते ||२७०७ ॥ अधाधिकरणकारिणामेव विशेषदोषान् दर्शयति - तावो कां० ॥ २ न चारित्र - ज्ञानानां तथा कां• ॥ ३ एतचिह्नमध्यगः पाठः कां० एव वर्तते ॥ ४ अथ भेदपदं प्रकारान्तरेण वित्रृणोति इत्यत्रतरणं कां० ॥ ५ 'चनैः शपिते 'ता' भा० ॥ ६°ति द्वितीयसाधौ 'प' कां० ॥ ७ अथ ज्ञान-दर्शन-चारित्राणां हानिं व्याख्याति इत्यवतरणं कां० ॥ For Private & Personal Use Only Jain Education International 25 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy