________________
10
भाष्यगाथाः २६९८-२७०५] प्रथम उद्देशः ।
७६१ यदि मोक्षार्थिनस्तदा 'आत्मार्थ एव' स्वाध्याय-ध्यानादिके 'यतध्वं' प्रयत्नं कुरुत । अपि चेत्यभ्युच्चये । ओपनियुक्तिशास्त्रेऽप्युपेक्षा संयमाङ्गतया प्रोक्ता, "उवेहित्ता संजमो वुत्तो" ( पेहेत्ता संजमो वुत्तो, उवेहित्ता वि संजमो । भा० गा० १७०) इति वचनात् । यहा "मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि सत्त्व-गुणाधिक-क्लिश्यमाना-ऽविनेयेषु' (तत्त्वा० अ० ७ सू० ६) इति वचनाद् अविनेयेषु » माध्यस्थ्यापरपर्याया उपेक्षैव प्रोक्ता, ततः सैव 5 साधूनां कर्तुमुचितेति भावः । अत्र सूरिराह--"गुणो वि दोसो हवइ एवं" ति यदिदमविनेयेषु माध्यस्थ्यमुपदिष्टं तदसंयतापेक्षया न पुनः संयतानङ्गीकृत्य; यस्मादसंयतेष्वियमुपेक्षा क्रियमाणा गुणः, संयतेषु तु क्रियमाणा महान् दोषो भवति । उक्तश्चौधनियुक्तावपि
संजयगिहिचोयणऽचोयणे य वावारओवेहा । (भा० गा० १७१) ॥२७०१॥ अथ "परपत्तिया न किरिय' त्ति पदं भावयति
जइ परो पडिसेविजा, पावियं पडिसेवणं ।
मज्झ मोणं चरंतस्स, के अट्ठे परिहायई ॥ २७०२ ॥ यदि 'परः' आत्मव्यतिरिक्तः 'पापिकाम्' अकुशलकर्मरूपामधिकरणादिकां प्रतिसेवनां प्रतिसेवेत ततो मम मौनमाचरतः को नाम ज्ञानादीनां मध्यादर्थः परिहीयते ? न कोऽपीत्यर्थः ॥ २७०२ ॥ अथ "मोत्तु परटुं व जयसु आय?" इति पदं व्याचष्टे
13 आयढे उवउत्ता, मा य परहम्मि वावडा होह ।
हंदि परहाउत्ता, आयट्टविणासगा होति ॥ २७०३ ॥ आत्माओं नाम-ज्ञान-दर्शन-चारित्ररूपं पारमार्थिकं स्वकार्य तत्रोपयुक्ता भवत, मा च 'परार्थे' परकार्येऽधिकरणोपशमनादौ व्यापृता भवत । हन्दीति हेतूपदर्शने । यस्मात् परार्थायुक्ताः 'आत्मार्थविनाशकाः' स्वाध्याय-ध्यानाद्यात्मकार्यपरिमन्थकारिणो भवन्ति ॥ २७०३ ॥ 20 गतमुपेक्षाद्वारम् । अथोपहसनोत्तेजनाद्वारे युगपद् व्याचष्टे
एसो वि तार दम्मउ, हसइ व तस्सोमयाए ओहसणा ।
उत्तरदाणं मा ओसराहि अह होइ उत्तुअणा ॥ २७०४ ॥ द्वयोरधिकरणं कुर्वतोरेकस्मिन् सीदति आचार्योऽन्यो वा ब्रवीति-एषोऽपि तावददान्तपूर्वो दम्यतामिदानीमनेन; यदि वा-तस्य 'अवमतायां' पश्चात्करणे इत्यर्थः खयमट्टट्टहासैरुपहसति, 25 एतदुपहसनमुच्यते । तथा तयोर्मध्याद् यः सीदति तस्य 'उत्तरदानं' अमुकममुकं च ब्रूहि इत्येवं शिक्षापणम् ; यद्वा-माऽमुष्मादपसरस्त्वम् , दृढीभूय तथा लग यथा नैतेन पराजीयसे, अथैषोत्तेजनाऽभिधीयते ॥ २७०४ ॥ अथ सहायकत्वं व्याख्यानयति
वायाए हत्थेहि व, पाएहि व दंत-लउडमादीहिं ।
जो कुणइ सहायत्तं, समाणदोसं तयं वेति ॥ २७०५ ॥ १ - एतचिह्नान्तर्गतः पाठः त. डे. मो. ले. नास्ति ॥ २ गुणो मन्तव्यः, संयतेषु तु क्रियमाणा एषा 'गुणोऽपि गुणरूपाऽपि महान् कां० ॥ ३ उपेक्षां कुर्वन्नन्येभ्य उपदेशमित्थं प्रयच्छति-आत्मार्थो नाम का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org