________________
७६० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ व्यवशमनप्रकृते सू० ३४. नोदितः-मा देशादिकथां कार्षीः, न वर्त्तते साधूनामीदृशी कथा कथयितुम् । स प्राहकोऽसि लं येनैवं मां वारयसि ? । तथापि 'अस्थिते' अनुपरते सत्यधिकरणं भवति । यद्वा "एक्के एक्के व देसरागम्मि" त्ति एकः साधुः सुराष्ट्रां वर्णयति, यथा-रमणीयः सुराष्ट्राविषयः; द्वितीयः प्राह-कूपमण्डूकस्त्वम् , किं जानासि ? दक्षिणापथ एव प्रधानो देशः; एवमेकैक5 देशरागेणोत्तरप्रत्युत्तरिकां कुर्वाणयोस्तयोरधिकरणं भवति ।। २६९७ ॥ एवमुत्पन्नेऽधिकरणे किं कर्त्तव्यम् ? इत्याह
जो जस्स उ उवसमई, विज्झवणं तस्स तेण कायव्यं ।
जो उ उवेहं कुजा, आवजइ मासियं लहुगं ॥ २६९८ ॥ यः साधुर्यस्य साधोः प्रज्ञापनयोपशाम्यति तस्य तेन साधुना 'विध्यापनं' क्रोधाग्निनिर्वापणं 10 कर्त्तव्यम् । यः पुनः साधुरुपेक्षां कुर्यात् स आपद्यते मासिकं लघुकम् ॥ २६९८ ॥ स इदमेवानुवदन् शेषानपि विशेषान् सप्रायश्चित्तान् दर्शयति-»
लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स ।
उत्तुयमाणे लहुगा, सहायगत्ते सरिसदोसो ॥ २६९९ ॥ उपेक्षां कुर्वाणस्य लघुको मासः प्रायश्चित्तम् । उपहसतः स एव मासो गुरुकः । अथ उत्15 प्राबल्येन तुदति उत्तुदति-अधिकरणं कुर्वन्तं विशेषत उत्तेजयतीत्यर्थः ततश्चत्वारो लघुकाः।
अथ कलहं कुर्वतः 'सहायकत्वं' साहाय्यं करोति ततोऽसावधिकरणकृता सह सदृशदोष इति कृत्वा सदृशं प्रायश्चित्तमापद्यते, चतुगुरुकमित्यर्थः ॥ २६९९ ॥ तथा चाह
चउरो चउगुरु अहवा, विसेसिया होति भिक्खुमाईणं ।
अहवा चउगुरुगादी, हवंति ऊ छेद निट्ठवणा ॥ २७०० ॥ 20 भिक्षु-वृषभोपाध्याया-ऽऽचार्याणामधिकरणं कुर्वतां प्रत्येकं चतुर्गुरुकम् , ततश्चत्वारश्चतुर्गुरुका
भवन्ति । अथवा त एव चतुर्गुरुकास्तपः-कालविशेषिता भवन्ति, तद्यथा-भिक्षोश्चतुर्गुरुकं तपसा कालेन च लघुकम् , वृषभस्य तदेव कालगुरुकम् , उपाध्यायस्य तपोगुरुकम् , आचार्यस्य तपसा कालेन च गुरुकम् । अथवा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्तव्या, तद्यथाभिक्षुरधिकरणं करोति चतुर्गुरुकम् , वृषभस्य षड्लघुकम् , उपाध्यायस्य पङ्गुरुकम् , आचार्यस्या25 धिकरणं कुर्वाणस्य च्छेद इति । यथा चाधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तं तथा साहाय्यकरणेऽपि द्रष्टव्यम् , समानदोषत्वात् ॥ २७०० ॥ अथोपेक्षाव्याख्यानमाह
परपत्तिया न किरिया, मोतु परहूं च जयसु आयटे।
अवि य उवेहा वुत्ता, गुणो वि दोसो हवइ एवं ।। २७०१ ॥ इहाधिकरणं कुर्वतो दृष्ट्वा माध्यस्थ्यभावेन तिष्ठन् अन्येषामप्युपदेशं प्रयच्छति-परप्र30 त्यया या 'क्रिया' कर्मबन्धः सा अस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्कमाभावात् । तथा यद्येतावधिकरणकरणादुपशाम्येते ततः परार्थः कृतो भवति । तं च परार्थ मुक्त्वा
१ एतचिह्नमध्यगतः पाठः कां० प्रतावेव वर्तते ॥ २ अधिकरणकारिणि उपेक्षां कां ॥ ३ तत्राधिकरणकारिणत्तावत प्रायश्चित्तमाकां०॥४कर्मसम्बन्ध: भा० विना ॥
Jain Education International
'For Private & Personal Use Only
www.jainelibrary.org