SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २६९२-९७] प्रथम उद्देशः । ७५९ 'आभाव्यं नाम' शैक्षः शैक्षिका वा कस्याप्याचार्यस्योपतस्थे । 'युष्मदन्तिके - प्रव्रज्यां गृह्णामि' इति । तमुपस्थितं मत्वा विपरिणमय्य परः कश्चिदाचार्यों गृह्णाति ततो मौलाचार्यों ब्रवीति-किमेवं मदीयमाभाव्यं गृह्णासि ?, पूर्वगृहीतं वा शैक्षादिकं याचितः-मदीयमाभाव्यं किं न प्रयच्छसि ? इति । एवमाभाव्यं सचित्तम् ‘इतरद्' अचित्तं मिश्रं वा तत्कालं गृह्यमाणं पूर्वगृहीतं वा मार्यमाणमपि यदा वितथप्रतिपत्तितो न ददाति तदा कलहो भवति । वितथ-5 प्रतिपत्तिर्नाम-परस्याभाव्यमपि शैक्षादिकमनाभाव्यतया प्रतिपद्यते ॥ २६९४ ॥ वचोगतद्वारमाह विच्चामेलण सुत्ते, देसीभासा पवंचणे चेव । अन्नम्मि य वत्तव्वे, हीणाहिय अक्षरे चेव ॥ २६९५ ॥ 'सूत्रे' सूत्रविषया या 'व्यत्यानेडना' अपरापरोद्देशका-ऽध्ययन-श्रुतस्कन्धेषु घटमानका-10 नामालापक-श्लोकादीनां योजना, यथा--"सव्वजीवा वि इच्छंति, जीविउं न मरिजिउं" (दशवै० अ० ६ गा० १०) इत्यत्र इदमप्यालापकपदं घटते "सचे पाणा पियाउया" (आचा० अ० २ उ० ३) इत्यादि । तथाभूतं सूत्रं परावर्तयन् 'किमेवं सूत्रं व्यत्यानेडयसि ?' इति प्रतिनोदितो यदि न प्रतिपद्यते तदाऽधिकरणं भवति । देशीभाषा नाम-मरुमालव-महाराष्ट्रादिदेशानां भाषा सामन्यत्र देशान्तरे भाषमाण उपहस्यते, उपहस्यमानश्चासङ्खडं करोति । यद्वा प्रपञ्चनं 15 वचनानुकारेण वा चेष्टानुकारेण वा कोऽपि करोति ततः प्रपञ्चयमानसाधुना सहाधिकरणमुत्पद्यते । अन्यस्मिन् वा वक्तव्ये कोऽप्यन्यद् वक्ति । यद्वा हीनाक्षरमधिकाक्षरं वा पदं वक्ति । तत्र हीनाक्षरम्-भास्कर इति वक्तव्ये भाकर इति वक्ति, अधिकाक्षरम्-सुवर्णमिति वक्तव्ये सुसुवर्णमिति ब्रवीति ॥ २६९५ ॥ परिहारिकद्वारमाह परिहारियमठवेंते, ठवियमणट्ठाए निविसंते वा। कुच्छियकुले व पविसइ, चोईयऽणाउट्टणे कलहो ॥ २६९६ ॥ गुरु-ग्लान-बालादीनां यत्र प्रायोग्यं लभ्यते तानि कुलानि परिहारिकाण्युच्यन्ते, एकं गीतार्थसङ्घाटकं मुक्त्वा शेषसङ्घाटकानां परिहारमहन्तीति व्युत्पत्तेः । तानि यदि न स्थापयति, स्थापितानि वा 'अनर्थ' निष्कारणं 'निर्विशति' प्रविशतीत्यर्थः, यद्वा 'परिहारिकाणि नाम' कुत्सितानि जात्यादिजुगुप्सितानीति भावः, तेषु कुलेषु प्रविशति । एतेषु स्थानेषु नोदितो यदि नावर्तते 25 न वा तेषु प्रवेशादुपरमते ततः कलहो भवति ॥ २६९६ ॥ १ देशेकथाद्वारमाह देसकहापरिकहणे, एके एक्के व देसरागम्मि । मा कर देसकहं ति य, चोईंय अठियम्मि अहिगरणं ॥ २६९७॥ देशकथाया उपलक्षणत्वाद् भक्त-स्त्री-राजकथानां च परिकथनं कुर्वाणो द्वितीयेन साधुना १। एतदन्तर्गतः पाठः कां० विना नास्ति ॥ २ पदमाचाराङ्गान्तर्गतं घ° कां ॥ ३°ति । ततोऽन्यैरुपहस्यमानः सोऽप्यसङ्खडं कुर्यादिति ॥ २६९५॥ परि° का० ॥ ४ चोयणऽणाउ° ता०॥ ५» एतदन्तर्गतः पाठः त० डे. मो० ले. नास्ति ॥ ६ चोदिणो अठि° ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy