________________
७५८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते स० ३४ एक्मत्रापि “धिइ" त्ति धृतिबलं "तणु" त्ति शारीरं च बलं विद्यमानविभवताकल्पमवसेयम् । इदमुक्तं भवति-यस्य जीवस्य वज्रकुड्यसमानं विशिष्टं मनःप्रणिधानबलं वज्रर्षभनाराचसंहननलक्षणं च शारीरं बलं भवति स धनिकसदृशं कर्म क्षपयित्वा सुखेनैवानृणीभवति; यस्य तु धृतिबलं शारीरबलं वा न भवति स तेन कर्मणा वशीक्रियते, वशीकृतश्च तत्परतन्त्रतया वर्तमानो विविधशारीर-मानसदुःखोपनिपातमनुभवति ॥ २६९१ ॥ आह धृति-संहननबलोपेतो यत् कर्म क्षपयति तत् किमुदीर्णमनुदीर्ण वा क्षपयति ? इति उच्यते
सहणोऽसहणो कालं, जह धणिओ एवमेव कम्मं तु ।
उदिया-ऽणुदिए खवणा, होज सिया आउवजेसु ॥ २६९२ ॥ धनिको द्विधा-सहिष्णुरसहिष्णुश्च । यः सहिष्णुः स विवक्षितं कालं प्रतीक्षते, इतरस्तु oन प्रतीक्षते । एवमेव कर्मापि' किञ्चित् स्वकालपूर्ती किञ्चित् पुनस्तामन्तरेणापि खविपाकं दर्शयतीति । एवमुदीर्णस्यानुदीर्णस्य वा कर्मणः क्षपणा धृति-संहननबलोपेतस्य भवेत् , “सिय" त्ति 'स्यात्' कदाचित् कस्याप्येवं भवति न सर्वस्य । यस्तु संहनन-बलविहीनः स नवरमनुदीर्ण कर्म देशतः क्षपयेत् न सर्वतः । “आउवजेसु" ति आयुःकर्मवर्जानां शेषकर्मणामनुदीर्णा
नामपि क्षपणं भवति, आयुषः पुनरुदीर्णस्यैव क्षपणमिति भावः । तदेवं धनिक-धारणिक1 दृष्टान्तेन जीव-कर्मणोरुभयोरपि तुल्यमेव यथायोगं बलीयस्त्वं द्रष्टव्यम् । उक्तञ्च
हेमाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे
नीचेर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वम् । निर्वाणं नारदेऽपि प्रशमपरिणतिः सा चिलातीसुतेऽपि
इत्थं कर्मा-ऽऽत्मवीर्ये स्फुटमिह जयतां स्पर्द्धया तुल्यरूपे ॥ ॥२६९३ ।। 20 . उक्तं सप्रपञ्च भावाधिकरणम् । अथ कथं तदुत्पद्यते ? इत्याशङ्कावकाशमवलोक्य तदुत्थानकारणानि दर्शयति
सच्चित्ते अञ्चित्ते, मीस वओगय परिहार देसकहा ।
सम्ममणाउट्टते, अहिगरणमओ समुप्पज्जे ॥ २६९३ ॥ 'सचित्ते' शैक्षादौ 'अचित्ते' वस्त्र पात्रादौ ‘मिश्रके' सभाण्ड-मात्रकोपकरणे शैक्षादावना25 माव्येऽपरेण गृह्यमाणे, तथा 'वचोगतं' व्यत्यानेडितादि तत्र वा विधीयमाने, परिहारः-स्थापना तदुपलक्षितानि यानि कुलानि तेपु वा प्रवेशे क्रियमाणे, देशकथायां वा विधीयमानायाम्, एतेषु स्थानेषु प्रतिनोदितो यदि सम्यग् नावर्त्तते-न प्रतिपद्यते अतोऽधिकरणमुत्पद्यते इति नियुक्तिगाथासमासार्थः ॥ २६९३ ॥ अथैनामेव विवृणोति
आभव्यमदेमाणे, गिण्हंत तहेव मग्गमाणे य ।
सच्चित्तेतरमीसे, वितहापडिबत्तिओ कलहो ॥ २६९४ ।। १°पि तुशब्दस्यापिशब्दार्थत्वात् किञ्चित् कां ॥ २ आन्ध्यं यद् व्र° भा० कां० ॥ ३णतः स्याच्चिलातीसुतोऽपि त० डे० ॥ ४°नि श्राद्धादीनि तेषु कां० ॥
५ इति गाथा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org