________________
भाष्यगाथाः २६८६-९१] प्रथम उद्देशः ।
७५७ जीवा अधोगतिं नीयन्ते तानि गुरुकाणि, यैस्तु त एबोर्द्धगतिं प्राप्यन्ते तानि लघुकानि, यैः पुनस्तिर्यग्योनिकेपु वा मनुप्येषु वा गतिं कार्यन्ते तानि गुरुलघुकानीति ॥ २६८८ ॥
तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्व-लघुत्त्रपरिणामः । अथ परः प्राहननु जीवास्तावत् स्ववशा एव ज्ञानावरणादिकं कर्मोपचिन्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्तते ? यदेवं कर्मोदयवलादूर्द्धमधस्तिर्यग् वा नीयन्ते ? उच्यते
कम्मं चिणंति सवसा, तस्सुदयम्मि उ परव्यसा होति ।
रुक्खं दुरुहइ सवसो, विगलइ स परव्यसो तत्तो ।। २६८९ ॥ जीवाः 'खवशाः' स्वतन्त्रा एव मिथ्यात्वा-ऽविरत्यादिभिः कर्म 'चिन्वन्ति' वध्नन्तीत्यर्थः, परं 'तस्य' कर्मण उदये ते जीवाः परवशा भवन्ति । दृष्टान्तमाह-यथा कश्चित् पुरुषो वृक्षमारोहन् 'स्ववशः' स्वाभिप्रायानुकूल्येनारोहति, स च कुतश्चिद् दुःप्रमादात् ततो विगलन् 10 'परवशः' खकाममन्तरेणैव विगलति ॥ २६८९ ॥ आह यद्येवं ततः किं संसारिणो जीवाः सर्वथैव कर्मपरवशा एव ? उच्यते-नायमेकान्तः, यत आह
कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माई।
कत्थइ धणिओ वलवं, धारणिओ कत्थई बलवं ॥ २६९० ॥ कर्मवशाः खलु प्रायेणामी संसारिणो जीवाः, परं 'कुत्रचित्' प्रबलधृति-बलादिसद्भावे कर्मा-18 ण्यपि जीववशानि । अमुमेवार्थ दृष्टान्तेन द्रढयति-यथा 'कुत्रचिद्' जनपदादौ 'धनिकः' व्यवहारिको बलवान् , 'कुत्रचित् पुनः' प्रत्यन्तप्रामादौ 'धारणिकः' ऋणधारकोऽपि बलवान् । इयमत्र भावना-यदि जनपदमध्यवर्ती विद्यमानविभवो वा धारणिकस्तदा धनिको वलीयान् , अथ धारणिकः प्रत्यन्तग्रामे वा पल्ल्यां वा गत्वा स्थितः न वा तस्य तथाविधं किमपि द्रव्यमस्ति ततो धारणिको बलवान् भवति ॥ २६९० ॥ एष दृष्टान्तः । अथार्थोपनयमाह- 20
धणियसरिसं तु कम्म, धारणिगसमा उ कम्मिणो होति ।
संताऽसंतधणा जह, धारणग धिई तणू एवं ॥ २६९१॥ इह धनिकसदृशं कर्म, धारणिकसमानाः 'कर्मिणः' सकर्मका जीवा भवन्ति, सुख-दुःखोपभोगादिऋणधारकत्वात् तेषामिति भावः । यथा च 'सद्धनाः' विद्यमानविभवाः 'असद्धनाश्च' अविद्यमानविभवा धारणिका भवन्ति । तत्र च विद्यमानविभवे धारणिके धनिको यदि कार्य 25 भवति तदा राजकुलबलेन तं धारणिकं धृत्वा खल्पं द्रव्यं वलादेपि गृह्णाति, स च धारणिकस्तस्मिन् द्रव्ये दत्ते संति अनृणीभवति । अथासावविद्यमानविभवस्ततस्तेन धनिकेन स वशी. क्रियते, वशीकृतश्च तत्पारतन्त्र्येण वर्तमानो दुस्सहं दासत्वादिमहादुःखोपनिपातमनुभवति । नीयन्ते भा० । नि । व्योमादिरूपमगुरुलघुनामकं तु चतुर्थ द्रव्यं प्रस्तुतेऽनुपयोगित्वादत्र म विवक्षितमिति । एवं' लेष्टादिदृष्टान्तेन जीवानां कर्माण्यपि कां० ॥
१ वलिओ ता० ॥ २°लादिसम्पन्ने दृढप्रहारिप्रभृतिके पुरुषे कर्मा' कां ॥ ३°मास्तु 'क' कां० ॥
४°न्ति, कर्मणः प्रति सुख° कां० ॥ ५ 'दपि दापयति; स ब भाः ॥ ६ काति आनयें प्रतिपद्यते । अथासा' भा० ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org