________________
भाष्यगाथाः २६८२-८५] प्रथम उद्देशः ।
७५५ नीमभिधीयते ? उच्यते- यत् प्राग् गाथायां चतुर्विधं द्रव्याधिकरणमुक्तं तद् "दबम्मि जंतमादी" (गा० २६८०) इति पदं व्याख्यानयता भाष्यकृता दर्शितम् , इदं तु नियुक्तिकारः सङ्ग्रहगाथया द्वयोरपि द्रव्यभावाधिकरणयोः खरूपं सूचयतीति । ___ अथास्या एव प्रथमपादं पश्चान व्याचष्टे-"उवसम' इत्यादि । कपायाणामुपशमेन क्षयेण चोर्द्धगतिः-स्वर्गा-ऽपवर्गलक्षणाऽवाप्यते । तेषामेव च तीव्रपरिणामानामुदयेन 'अधःकरणं 5 भवति' नरकगतिगमनं भवतीति भावः । उपलक्षणमिदम् , तेन नातितीत्रैः कषायैस्तिर्यग्गतिर्मध्यमैस्तु मनुष्यगतिरवाप्यत इति पुरातनगाथासमासार्थः ॥ २६८२ ॥' अथास्या एव भाप्यकारो व्याख्यानं करोति---
तिव्वकसायसमुदया, गुरुकम्मुदया गती भवे हिट्ठा।
नाइकिलिट्ठ-मिऊहि य, उपवज्जइ तिरिय-मणुएसु ॥ २६८३॥ 10 तीव्राः-सकिष्टपरिणामा ये कषायाः-क्रोधादयस्तेषां सम्बन्धी यः सम्-एकीभावेनोदयस्तेन जीवा गुरूणां-ज्ञानावरणीयादिकर्मणामुपचयं कुर्वन्ति । गुरुकर्मोदयाच्च तेषाम् 'अधः' सप्तमनरकपृथिव्यादिनरकेषु गतिर्भवति । ये तु कषाया नातिक्लिष्टाः-नातीवाशुभपरिणामास्तै तिक्लिष्टः कर्मोपचयो भवति ततश्च तिर्यसूत्पद्यन्ते । ये तु मृदवः-प्रतनुपरिणामास्तैम॒दुः कर्मोपचयो भवति ततो मनुप्येषूत्पद्यन्ते ॥ २६८३ ॥
खीणेहि उ निव्वाणं, उवसंतेहि उ अणुत्तरसुरेसु ।
जह निग्गहो तह लहू, समुवचओ तेण सेसेसु ॥ २६८४ ॥ 'क्षीणैः' अभावतां गतैः कषायैर्निर्वाणमासादयति । 'उपशान्तैः' विकम्भितोदयैः तुशब्दात् क्षीणोपशान्तैश्वानुत्तरविमानवासिषु सुरेपूत्पद्यते । एवं यथा प्रकृष्टः प्रकृष्टतरः कषायाणां निग्रहः तथाऽयं जीवः 'लघुः' लघुभूतो भवति । अथ न तथाविधः कषायाणां निग्रहः कृतस्ततः कर्मणां 20 समुपचयो भवति, तेन शेषेषु' अनुत्तरविमानवासिवर्जेषु देवेषूत्पद्यते । आह गुरुलघुकमगुरुलघुकं वा द्रव्यं भवति नैकान्तगुरुकं न वा एकान्तलघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जीवा अधो गच्छन्ति लघुतया तूर्द्धमिति कथं न विरुध्यते ? उच्यते-इह हि यद् आगमे गुरुलघुकमगुरुलघुकं वा द्रव्यमुक्तं तन्निश्चयनयमता तश्रेयणेन, इदं तु कर्मणां गुरुत्वं लघुत्वं च व्यवहारनयमता श्रयणाद् उच्यते ॥ २६८४ ॥ तथा चामुमेवार्थ ज्ञापयितुमिदमाह- 25
गुरुयं लहुयं मीसं, पडिसेहो चेव उभयपक्खे वि ।
तत्थ पुण पढमविइया, पया उ सव्वत्थ पडिसिद्धा ॥ २६८५ ॥ गुरुकं १ लघुकं २ 'मिथ' A गुरुलघुकमिति ३ 'प्रतिषेधश्चैवोभयपक्षेऽपि' न गुरुकं नापि » लघुकमित्यर्थः ४, एवं व्यवहारतश्चतुद्धी द्रव्यम् । 'तत्र पुनः' एतेषां मध्ये ये प्रथम
१ एतदग्रे त. डे. मो० ले. ग्रन्थाग्रम-३००० इति वत्तते ॥ २०» एतचिह्नमध्यगतः पाठः भा० कां० पुस्तकयोरेव विद्यते ॥ ३ इह व्यवहारनयाभिप्रायतश्चतुर्विधं द्रव्यं भवति, तद्यथा-गुरुकं कां० ॥ ४ एतन्मध्यगतः पाठः भा.कां. पुस्तकयोरेव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org