SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ७५४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ व्यवशमनप्रकृते सू० ३४ राहि । ते अ आहरिया । आयरिएण संजोइया एगते निक्खित्ता भणितो-एत्तिएण कालेण उक्खणिज्जासि, अहं गच्छामि । तेण उक्खत्तो । दिट्ठीविसो सप्पो जातो । सो तेण मारितो। एवं अहिगरणच्छेदो' । सो वि सप्पो अंतोमुहुत्तेण मओ त्ति ॥ ___ यद्वा वैक्रिया-ऽऽहारकशरीरे अपि यन्निष्कारणे निवर्तयति, परशु-कुन्तादीनि वा करोति 5 तन्निवनाधिकरणमुच्यते । निक्षेपणाधिकरणं द्विधा-लौकिकं लोकोत्तरिकं च । तत्र यद मत्स्यग्रहणार्थ गलनामा लोहकण्टकः कूटं वा मृगादीनां ग्रहणाय जालं वा लावकादी नामर्थाय निक्षिप्यते, शतन्यादीनि घरट्टा-ऽरघट्टादीनि वा यत्राणि स्थाप्यन्ते तदेतद् लौकिकं निक्षेपणाधिकरणम् । यत्तु लोकोत्तरिकं तत् षड्विधम्-यत्र पात्राद्युपकरणं निक्षिपति तत्र न प्रत्युपेक्षते न प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३; यत्तु प्रत्युपेक्षते 10 प्रमार्जयति च तद् दुष्प्रत्युपेक्षितं दुःप्रमार्जितं ४ दुःप्रत्युपेक्षितं सुप्रमार्जितं ५ सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६ करोति; एवमेते षड्नङ्गा निक्षेपणाधिकरणम् । यस्तु सप्तमो भङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतीति लक्षणः स नाधिकरणम् , शुद्धत्वात् । यद्वा यद् भक्तं पानकं वाऽपावृतं स्थापयति तन्निक्षेपणाधिकरणम् । संयोजनाधिकरणमपि द्विधा लौकिक-लोकोत्तरिकभेदात् । तत्र लौकिकं रोगाद्युत्पत्तिकारणं विष-गरादिनिष्पत्तिनिबन्धनं वा द्रव्यसंयोजनम् । लोकोत्तरिकं तु 15 भक्तोपधिशय्याविषयसंयोजनम् । निसर्जनाधिकरणमपि लौकिकं शर-शक्ति-चक्र-पाषाणादीनां निसर्जनम् । लोकोतरिकं तु सहसाकारादिना यत् कण्टक-कर्करादीनां भक्तपानान्तःपतितानां निसर्जनम् ॥ २६८१ ॥ गतं द्रव्याधिकरणम् । अथ भावाधिकरणमाह अह-तिरिय-उद्दकरणे, बंधण निव्वत्तणा य निक्खिवणं । उवसम-खएण उड्डे, उदएण भवे अहेगरणं ॥ २६८२ ॥ 20 इह क्रोधादीनां कषायाणामुदयो भावाधिकरणमित्युक्तम् (गा० २६८०), अतस्तेषामेव 'अपस्तिर्यगू करणे' अधोगतिनयने तिर्यग्गतिनयने ऊर्द्धगतिनयने च स्वरूपं वक्तव्यम् । तथा 'बन्धनं नाम' संयोजनं १ निर्वर्तना २ निक्षेपणं ३ चशब्दस्य व्यवहितसम्बन्धस्यात्र योजनाद् निसर्जना ४ चेति चतुर्विधं द्रव्याधिकरणम् । आह अनन्तरप्रतिपादितमिदं किमर्थमिदा १°दो आयरिपहिं कओ । सो कां ॥ २ तद् चतुर्विधम्-यत्र पात्राद्युपकरणं निक्षिपति तत्र न प्रत्युपेक्षते न प्रमार्जयति १न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३; यत्तत् प्रत्युपेक्षते प्रमार्जयति च तद् दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं १ दुष्प्रत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं दुष्प्रमार्जितम् ३, एते त्रयो भङ्गा एक एव चतुर्थो विकल्पः । यस्तु सुप्रत्युपेक्षितं सुप्रमार्जितं कृत्वा निक्षिपति स नाधिकरणम्, शुद्धत्वात् । संयोजना भा० ॥ ३ इतः प्रभृति “कम्मं विणंति सवसा.” २६८९ गाथान्ता गाथा विशेषचूर्णिकृता क्रमभेदेन व्याख्याताः सन्ति । तथा च तत्क्रमः-अह-तिरिय-उपकरणे. २६८२ । गुरुयं लहुयं मीसं० २६८५ । जा तेयगं सरीरं० २६८६ । अहवा बायरबोंदी. २६८७ । ववहारणयं पप्प उ० २६८८ । तिव्वकसायसमुदया. २६८३ । सीहि उ निम्बाणं० २६८४ । कम्मं चिणंति सवसा. २६८९ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy