SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २६७७-८१] प्रथम उद्देशः । ७५३ णकं प्रणयनमिति वा त्रीण्यप्येकार्थानि । तानि तु प्राभृतादीनि 'निरयस्य' नरकस्य मन्तव्यानि, यत एतदधिकरणं नरकस्य-सीमन्तकादेः प्राभृतमिव प्राभृतमुच्यते, एवं प्रहेणक-प्रणयनपदे अपि भावनीये ॥ २६७८ ॥ इच्छा न जिणादेसो, आढा उण आदरो जहा प्रवि ।। भुंजण वास मणुन्ने, सेस मणुन्ने व इतरे वा ॥ २६७९ ॥ । इच्छा नाम न 'जिनादेशः' तीर्थकृतामुपदेशोऽयमिति कृत्वा नादरादीनि पदानि करोति किन्तु स्वच्छन्देन । तथा आढा नाम-आदरस्तं यथा पूर्वमुचितालापादिभिः कृतवाँस्तथा कुर्याद्वा न वा । शेषाणि त्वभ्युत्थानादीनि सुगमानीति कृत्वा भाष्यकृता न व्याख्यातानि । अत्र च सम्भोजन-संवासनपदे 'मनोज्ञेषु' साम्भोगिकेषु भवतः । शेषाणि तु' आदरा-ऽभ्युत्थान-वन्दनोपशमनपदानि 'मनोज्ञेषु वा' साम्भोगिकेषु 'इतरेषु वा' असाम्भोगिकेषु भवेयुः ॥ २६७९ ।। 10 कृता भाष्यकृता विषमपदव्याख्या । अथ नियुक्तिविस्तरः नाम ठवणा दविए, भावे य चउन्विहं तु अहिगरणं । [सू.निः१६७] दव्वम्मि जंतमादी, भावे उदओ कसायाणं ।। २६८० ॥ नामाधिकरणं स्थापनाधिकरणं द्रव्याधिकरणं भावाधिकरणं चेति चतुर्विधमधिकरणम् । तत्र नाम-स्थापने गतार्थे । द्रव्याधिकरणमागमतोऽधिकरणशब्दार्थ प्ररूपयन्ननुपयुक्तो वक्ता.। नोआ-15 गमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्याधिकरणं यन्त्रादिकं द्रष्टव्यम् । यत्रं नाम दलनयत्रादि । 'भावे' भावाधिकरणं 'कषायाणां' क्रोधादीनामुदयो विज्ञेयः ॥ २६८० ॥ .. . तत्र द्रव्याधिकरणं व्याख्यानयति दव्वम्मि उ अहिगरणं, चउन्विहं होइ आणुपुवीए । निव्वत्तण निक्खिवणे, संजोयण निसिरणे य तहा ॥ २६८१॥ 20 'द्रव्ये' द्रव्यविषयमधिकरणं चतुर्विधं भवति 'आनुपूर्व्या' परिपाट्या, तद्यथा-निर्वर्तनाधिकरणं निक्षेपणाधिकरणं संयोजनाधिकरणं निसर्जनाधिकरणं चेति । तत्र योनिप्राभृतादिना यदेकेन्द्रियादिशरीराणि निर्वर्त्तयति, यथा सिद्धसेनाचार्येणाश्वा उत्पादिताः। ___ जहा वा एगेणायरिएण सीसस्स जोगो उवदिट्ठो जहा महिसो भवति । तं च सुतं आयरियाणं भाइणिजेण । सो निद्धम्मो उन्निक्खंतो महिसं उप्पाएउं सोयरियाण हत्थे विक्किणइ । 25 आयरिएण सुतं । तत्थ गतो भणेइ-किं एतेणं? अहं ते रयणजोगं पयच्छामि, दवे आह१ानि' अधिकरणपर्यायनामानि, यत भा० ॥ २°च्छन्दसा। तथा भा०॥ ३ युः ॥२६७९॥ अथाधिकरणपदं व्याचिख्यासुः प्रथमतः तन्निक्षेपमाह-नाम भा० । . "एष सूत्रार्थः, अधुना नियुक्तिविस्तर:-णामं ठवणा• गाधा" इति चूर्णौ। . - "एष सूत्रार्थः । अधुना सूत्रस्पर्शिकनियुक्तिविस्तर उच्यते-णाम ठवणा० गाहा" इति विशेषचूर्णौ ॥ ४ "णिन्नसणाधिकरणं जोणिपाहुडेणं एगिदियादीणं सरीराणि णिवत्तेति" चूर्णी विशेषचूर्णौ च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy