________________
७५२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [न्यवशमनप्रकृते सू० ३४ दुष्कृतप्रदानेने 'अवशमथ्य' उपशमं नीत्वा ततो विशेषेणावसायितम्-अवसानं नीतं प्राभृतकलहो येन स व्यवसायितप्राभृतः-व्युत्सृष्टकलहो भवेत् । किमुक्तं भवति?—गुरुसकाशे खदुश्चरितमालोच्य तत्प्रदत्तप्रायश्चित्तं च यथावत् प्रतिपद्य भूयस्तदकरणायाभ्युत्तिष्ठेत् । आह येन सह तदधिकरणमुत्पन्नं स यद्युपशम्यमानोऽपि नोपशाम्यति ततः को विधिः ? इत्याह"इच्छाए परो आढाएज्जा" इत्यादि सूत्रम् । 'इच्छया' यथास्वरुच्या 'परः' अन्यो द्वितीयः .साघुराद्रियेत इच्छया परो नाद्रियेत, प्रागिव सम्भाषणादिभिरादरं कुर्याद्वा न वेति भावः ।
एवमिच्छया परस्तमभ्युत्तिष्ठेत् , इच्छया परो नाऽभ्युत्तिष्ठेत् । - इच्छया परस्तं साधुं वन्देत, » इच्छया परो न वन्देत । इच्छया परस्तेन साधुना सह 'सम्भुञ्जीत' एकमण्डल्यां भोजनं दान. ग्रहणसम्भोग वा कुर्यात् , इच्छया परो न सम्भुञ्जीत । इच्छया परस्तेन साधुना सह 'संवसेत्' 10 सम्-एकीभूयैकत्रोपाश्रये वसेत् , इच्छया परो न संवसेत् । इच्छया पर उपशाम्येत, इच्छया परो नोपशाम्येत । परं यः 'उपशाम्यति' कषायतापापगमेन निर्वृतो भवति तस्यास्ति सम्यग्दर्शनादीनामाराधना, यस्तु नोपशाम्यति तस्य नास्ति तेषामाराधना । 'तस्मात्' एवं विचिन्त्य आत्मनैव 'उपशान्तव्यम्' उपशमः कर्त्तव्यः । शिष्यः प्राह—“से किमाहुँ भंते !” अथ किमत्र कारणमाहुँः 'भदन्त!' परमकल्याणयोगिन् ! तीर्थकरादयः ? । सूरिराह-उपशमसारं श्राम15 ण्यम् , तद्विहीनस्य तस्य निष्फलतयाऽभिधानात् । उक्तञ्च व देशवैकालिकनियुक्ती ---
सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति ।
मन्नामि उच्छुपुप्फं, व निप्फलं तस्स सामन्नं ॥ (गा० ३०१) इति सूत्रार्थः ॥ अर्थ विषमपदानि भाष्यकृद विवृणोति
घेप्पंति चसद्देणं, गणि आयरिया य भिक्खुणीओ य । 20
अहवा भिक्खुग्गहणा, गहणं खलु होइ सव्वेसि ॥ २६७७ ॥ इह सूत्रे भिक्षुश्चेति यश्चशब्दस्तेन 'गणी' उपाध्यायस्तथा आचार्यो भिक्षुण्यश्च गृह्यन्ते । अथवा 'भिक्षुग्रहणात्' भिक्षुपदोपादानात् सर्वेषामप्याचार्यादीनां ग्रहणं द्रष्टव्यम् , “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्" इति वचनात् ॥ २६७७ ॥
खामिय वितोसिय विणासियं च झवियं च होंति एगट्ठा । 25
पाहुड पहेण पणयण, एगट्ठा ते उ निरयस्स ॥ २६७८ ॥ आमितं व्यवशमितं विनाशितं क्षपितमिति चैकार्थानि पदानि भवन्ति । तथा प्रार्भूतं प्रहे१°न उपशमय्य व्युपशमितप्राभृतो भवेदिति क्रियाध्याहारः । किमुक्तं भा० ॥ २ एतच्चिह्नमध्यगतः पाठः भा० पुस्तकान्तरेव वर्तते ॥ ३°हु भंते !" सेशब्दो अथशब्दार्थे, किमिति परिप्रश्ने, अथ कां० ॥. ४°हुः भगवन्तः यदेवमुपशम एव मोक्षमार्गाराधनानिबन्धनमुपवर्ण्यते ?। सूरि भा०॥ ५ एतन्मध्यगतः पाठः भा० नास्ति ॥ ६°थ विस्तरार्थ भाष्यकृत् प्रतिपादयति भा० ॥ ७ क्षामितमिति वा व्यवशमितमिति वा विनाशित मिति वा क्षपितमिति वैका भा०॥ ८°भृतमिति वा प्रहेणकमिति वा प्रण° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org