________________
७४८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० सू० ३२ खेदिताः सत्यस्तदुःखापनोदार्थमित्थं विखरं रुदन्त्य इव गायन्ति तर्हि परमार्थतो विलपितमेवैताः कुर्वन्ति, "सर्व गीतं विलपितम्" इति वचनात् ; ततः सकरुणं विलपन्तीप्वेतासु हे हतहृदय ! किमेवम् 'आकुलीभवसि' विश्रोतसिकामुपगच्छसि ? नैवं भवतो युज्यत इति भावः ॥२६६३ ॥ गता शालाविषया यतना । अथ मध्यविषयां यतनामाह
मज्झे जग्गंति सया, निंति ससदा य आउला रत्तिं ।
फिडिए य जयण सारण, एहेहि इओ इमं दारं ॥ २६६४ ॥ यत्र चतुःशालादिगृहमध्ये वसन्ति तत्र वृषभा रात्रौ 'सदैव' चतुर्वपि यामेष्वित्यर्थः वारकेण जाग्रति । कायिक्यादिव्युत्सर्जनार्थं च रात्रौ 'सशब्दाः' काशितादिशब्दं कुर्वन्तः 'आकुलाश्च' स्वरमाणाः 'निर्यन्ति' निर्गच्छन्ति यथा पूर्वोक्ताः शङ्कादयो दोषा न स्युः । यश्च रात्रौ 10 'स्फिटितः' मार्गात् परिभ्रष्टो » भवति तस्य यतनया यथा गृहस्था न विबुध्यन्ते तथा सारणा कर्तव्या, यथा- एहि एहि इत इदं द्वारं वर्त्तते ॥ २६६४ ॥
अविजाणंतों पविट्ठो, भणइ पविट्ठो अजाणमाणो मि ।
एहामि वए ठविउं, न पवत्तइ अत्थि मे इच्छा ॥ २६६५॥ यस्तत्रान्यमपवरकमविजानन् प्रविष्टः स पृष्टोऽपृष्टो वा शङ्कापनोदार्थ भणति-'अजानानः' 15 मार्गमनवबुध्यमानोऽहमत्र प्रविष्टः । यदि अविरतिका तमवभाषते-मया सममुपभुक्ष्व भोगान्
अन्यथोड्डाहं करिष्यामीति, ततो वक्तव्यम्-येषां गुरूणां समीपे मया व्रतानि गृहीतानि सन्ति तेषामेव सन्निधौ स्थापयित्वा एष्यामि, ममापि त्वद्विषया इच्छाऽस्ति परं किं करोमि ? 'न प्रवर्तते' न बुध्यते (युज्यते) गुरूणां समीपे व्रतान्यस्थापयित्वा एवं कर्तुम् इत्यभिधाय ततो निर्गन्तव्यम् ॥ २६६५ ॥ यत्र मज्जन-हिरण्ये भवतस्तत्रेयं यतना20
कडओ व चिलिमिली वा, मजतिसु थेरगा य तत्तो उ ।
आइनहिरनेसु य, थेर चिय सिक्खगा दूरे ॥ २६६६ ॥ शय्यातरस्त्रीषु मज्जन्तीषु उपलक्षणत्वात् शय्यातरे वा मज्जति अपान्तराले कटको वा चिलिमिलिका वा दातव्या, ततश्च तेन पार्थेन स्थविराः स्थापयितव्याः । येन च पार्श्वेन हिर
ण्यादीन्याकीर्णानि भवन्ति ततः स्थविरा एव कर्तव्याः । शिक्षकास्तु ततो दूरे स्थापनीयाः 25 ॥ २६६६ ॥ गता मध्यविषया यतना । अथ छिण्डिकाविषयामाह
दारमसुन्नं काउं, निति अइंती ठिया उ छिंडीए ।
काइयजयणा स चिय, वगडासुत्तम्मि जा भणिया ॥ २६६७॥ छिण्डिकायां स्थिताः सन्तो द्वारमशून्यं कृत्वा निर्गच्छन्ति वा प्रविशन्ति वा येन स्तेनादयो दोषा न भवन्ति । 'कायिकीयतना तु' मात्रकव्युत्सर्जनादिका सैव द्रष्टव्या या पूर्व वगडासूत्रे 30 भणिता (गा० २२७२-२२७७) ॥ २६६७॥
, “सवं विलवियं गीयं" उत्तराध्ययने अ० १३ गा० १६ ॥ २ एतन्मध्यगतः पाठः को. एव वर्तते ॥ ३ वतं ठ° ता० ॥ ४°त्वा आगमिष्यामि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org