________________
10
भाष्यगाथाः २६५६-६३] प्रथम उद्देशः ।
७४७ कमित्थं कर्णाघाटकेनालापकान् ग्रहीतुम् , इत्थं गृह्यतामिहैवोन्मादादयो बहवोऽनर्था भवन्तीति। आदिग्रहणाद् विद्यया मन्त्रेण वा ते तथा वशीक्रियन्ते यथा कर्णाघाटकेन ग्रहणादुपरमन्ते । तथा 'विकुर्विते' विण्टकविद्ध 'खद्धे' महाप्रमाणे 'अपावृते' व्यपगतत्वचि सागारिके सति इयं यतना—पटलकानां चोलपट्टकस्य वा चतुरस्रीकृतस्यैकस्मिन् पुटे छिद्रं कृत्वा सागारिकं गोपायितव्यम् ॥ २६५९॥ यत्रादर्शदोषा भवन्ति तत्रेयं यतना
अदागदोससंकी, जा पढमा ताव पाउया णिति ।
उट्ठण-निवेसणेसु य, तत्तो पढि न कुव्वंति ॥ २६६० ॥ __ आदर्शदोषशकिनः सन्तो यावत् प्रथमा पौरुषी तावत् प्रावृता एव निर्गच्छन्ति । उत्थानोपवेशनयोश्च 'ततः' गृहस्थाभिमुखं पृष्ठं न कुर्वन्ति, मा पुतौ दृष्ट्वा तेऽमङ्गलं मन्यन्तामिति कृत्वा ॥ २६६०॥ यत्र कल्पस्थकदोषाः समुद्देशदोषाश्च भवन्ति तत्रेयं यतना
अवणाविंतिऽवणिति व, कप्पटे परिरयस्स असईए ।
अप्पत्ते सइकाले, बाहि वियटृति निग्गंतुं ॥२६६१॥ परिरयो नाम-मार्गान्तरेण गमनम् , ततश्च यद्यन्यस्य मार्गस्य सम्भवस्ततः कल्पस्थाधिष्ठितं मार्ग विहाय तेन गन्तव्यम् । अथ नास्त्यपरो मार्गस्ततः कल्पस्थानि शय्यातरादिभिस्ततो मार्गादपनाययन्ति, 'वयं भिक्षादौ गमिष्यामस्तत एतदपत्यभाण्डं नि-बाधमन्यत्र नयत' इत्येवं भण-15 न्तीति भावः । अथ न तत्र कोऽपि सन्निहितः ततः स्वयमेव यतनया ततो मार्गात् तान्यपनयन्ति । तेषां च गृहस्थानां यदा समुद्देशनवेला तदा साधवोऽप्राप्ते एव भिक्षासत्काले पात्रका. ण्युद्राह्य निर्गत्य च बहिर्गत्वा 'व्यावर्त्तयन्ति' भिक्षावेलां प्रतीक्षन्ते, येनावष्वष्कणादयो दोषाः परिहृता भवन्ति ॥ २६६१ ॥ यत्र संयतानां भुञ्जानानां सागारिकं तत्रेयं यतनानीउच्चा उच्चतरी, चिलिमिलि भुजंत सेसए भयणा।
20 पुढवी-दगाइएसुं, सारण जयणाएँ कायव्वा ।। २६६२ ॥ यदि सर्वेऽपि साधवः 'भुञ्जानाः' भक्तार्थिनस्तदा तिस्रश्चिलिमिलिका दातव्याः, तद्यथाप्रथमा नीचा, द्वितीया तस्याः सकाशादुच्चा, तृतीया तु ततोऽप्युच्चतरा । शेषा नाम-यदि केचिदभक्तार्थिनस्तदा तिसृणां चिलिमिलिकानां भजना, कदाचिदेका कदाचिद् द्वे कदाचित् तिस्रोऽपि दातव्या इति भावः । यत्र च पृथिवी-दका-ऽग्नि-बीजानां सम्भवस्तत्र गृहस्थानां यतनया 25 'सारणा' अनुशिष्टिः कर्त्तव्या, यथा साधूनां पृथिव्युदकामिबीजानां विराधना न भवति तथा यतितव्यमिति ॥ २६६२ ॥ यत्र बीजकार्य कण्डयन्त्यो गायन्ति तत्रेयं यतना
जइ कुट्टणीउ गायंति विस्सरं साइयाउ मुसलेहि।
विलवंतीसु सकलुणं, हयहियय! किमालीभवसि ॥ २६६३ ॥ बीजकायं कुट्टयन्तीति कुट्टन्यः-कण्डनकारिण्य इत्यर्थः, तासु गायन्तीषु साधुभिः खचे-30 तसि चिन्तनीयम्-यदि नामैताः कुट्टन्यो मुशलैरनवरतमुत्क्षिप्यमाण-निक्षिप्यमाणैः 'सादिताः' १°तस्य यः सर्वाभ्यन्तरवर्ती पुटस्तत्रच्छिदं भा० ॥ २'तः परिरयस्थासति क° का ॥ ३॥ एतदन्तर्गतः पाठः भा० का० पुस्तकयोरेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org