SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ७४६ ___ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० स० ३२ लग्ना, तया च 'रात्रौ भवता समागन्तव्यम्' इति तस्य सङ्केतः कृतः, स चोद्धामक आयातः, संयतैश्च छिण्डिका स्थगिता, ततः सा द्वितीयदिने तं प्रश्नयति किं नागओ सि समणेहि ढक्कियं दोस कूयरा जंतु। एतेहऽवंगुएण व, अज पइट्ठो सइरचारी ॥ २६५६ ॥ 5 कल्ये किं नागतोऽसि ? । स प्राह-आगतोऽहं परं किं करोमि ? श्रमणैः स्थगित छिण्डिकाद्वारम् । ततः "दोस कूयरा जं तु" त्ति कुत्सितं शिष्टजनजुगुप्सितं चरन्तीति कुचराःउद्रामका उद्भामिका वा, ते यद् 'द्वेषात्' प्रद्वेषतः साधूनां प्रान्तापना-ऽभ्याख्यानदानादि करिप्यन्ति तन्निष्पन्नं प्रायश्चित्तम् । अथवा 'एतैः' श्रमणेः 'अपावृतेन' उद्घाटितेन छिण्डिकाद्वारेण 'खैरचारी' स्तेन उद्धामको वा अद्यास्माकं गृहे प्रविष्ट इति कृत्वा सागारिको यद् वसत्यादि10 व्यवच्छेदं कुर्यात् तन्निष्पन्नम् ॥ २६५६ ॥ अथवा स्तेनः प्रविष्टः सन्निदं कुर्यात् अवहारे चउभंगो, पसंग एएहि संपदिन्नं तु । संजयलक्खेण परे, हरिज तेणा दिय निसिं वा ॥ २६५७ ॥ अपहारे चतुर्भङ्गी । तद्यथा-एके स्तेनाः प्रविष्टाः सन्तः संयतानां हरन्ति न गृहस्थानाम् १ अपरे गृहस्थानां न संयतानाम् २ केचिद् गृहस्थानामपि संयतानामपि ३ केचिन्न गृहस्थानां न 15 संयतानामित्येष चतुर्थो भङ्गः शून्यः । तत्र यत्र संयतानामपहरन्ति तत्रोत्कृष्ट-मध्यम-जघन्योपधिनिष्पन्नम् । यत्र तु गृहस्थानामपहरन्ति तत्र 'एतैरेव साधुभिश्चिण्डिकामुद्घाटयद्भिरस्मदीयं सुव र्णादि स्तेनेभ्यः सम्प्रदत्तम्' इति विचिन्त्य ते गृहस्था राजकुले ग्रहणा-ऽऽकर्षणादिप्रसङ्गं कारापयेयुः । तथा 'अपरे' केचिद् मायाविनः स्तेनाः 'संयतलक्ष्येण' साधुवेषव्याजेन दिवा वा निशायां वा तत्र प्रविश्य कथञ्चित् प्रमत्तानामगारिणां सुवर्णादिकमपहरेयुः । । तृतीयभङ्गे तु 20 प्रथमद्वितीयभोक्ता दोषा द्रष्टव्याः । » यत एते दोषा अतः (ग्रन्थानम्-६५०० । सर्व ग्रन्थानम्-१८७२०) शालायां वा मध्ये वा छिण्डिकायां वा न स्थातव्यम् । भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ २६५७ ॥ किं पुनस्तत् ? इत्याह अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए । सालाएँ मझें छिंडी, वसंति जयणाएँ गीयत्था ॥ २६५८॥ 25 अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयित्वा यदि न लभन्ते ततः प्रथमं शालायां तस्या अलाभे चतुःशालादिगृहमध्ये तस्याप्यभावे छिण्डिकायां यतनया गीतार्था वसन्तिः ॥ २६५८ ॥ तत्र शालाविषयां यतनां तावदाह बोलेण झायकरगं, तहा वि गहिएऽणुसट्ठिमाईणि । वेउव्यि खद्धवाउडि, छिड्डा चोले य पडले य ॥ २६५९ ॥ 30 यत्र खाध्यायं कुर्वतामालापकान् कर्णाघाटयन्ति तत्र 'बोलेन' सर्वेऽपि समुदिताः स्वाध्यायं कुर्वन्ति येन ते व्यक्तं किमप्यालापकपदं न शृणुयुः । अथ तथापि ते तदेकाग्रचित्ततया शृण्वन्तो दक्षत्वादालापकपदानि गृह्णीयुः ततस्तेषामनुशिष्टिः कर्त्तव्या-भो भद्राः! न वर्तते युप्मा१ एतदन्तर्गतः पाठः भा० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy