________________
७४५
भाष्यगाथाः २६४९-५५] प्रथम उद्देशः । तरः संयतान् शङ्केत ॥ २६५२ ॥ गतं मध्यद्वारम् । अथ छिण्डिकाद्वारमाह
छिंडीइ पञ्चवातो, तणपुंज-पलाल-गुम्म-उक्कुरुडे । . मिच्छत्ते संकादी, पसजणा जाव चरिमपदं ॥ २६५३ ॥
इह यस्याश्छिण्डिकाया मध्येन गत्वा पुरोहडे प्रविश्यते तस्या द्वारमूले यः प्रतिश्रयः, यद्वा छिण्डिका-पुरोहडं तत्र यस्या वसतेारं तत्र तिष्ठतां प्रत्यपाय उच्यते । तत्र पुरोहडे तृणपुञ्जो वा पलालपुञ्जो वा 'गुल्मा वा' नवमालिका-कोरण्टकप्रभृतयः 'उत्कुरुटा वा' इष्टका-काष्ठादिराशिरूपा भवेयुः तत्र वक्ष्यमाणा दोषाः । तत्र चोपाश्रये स्थितान् साधून् दृष्ट्वा केचिदभिनषधर्माणो मिथ्यात्वमुपगच्छेयुः । अथवा 'किं मन्ये मैथुनार्थिन एतेऽत्र स्थिताः ?' एवं शङ्कायाम् आदिशब्दाद् भोजिका-घाटिकादिपरम्परया निवेदने च 'चरमपदं' पाराञ्चिकं यावत् प्रायश्चित्तस्य प्रसजना प्राग्वद् द्रष्टव्या ॥ २६५३ ॥ तृणपुञ्जादिषु दोषानाह
10 एक्कतरे पुग्वगते, आउभएँ गभीर गुम्ममादीसु।
अह तत्थेव उवस्सओ, निरोहऽसज्झाय उड्डाहो ॥ २६५४ ॥ 1 "गुम्ममाईसु" ति विभक्तिव्यत्ययाद । गुल्म-तृणपुञ्जादिभिः 'गभीरे' गुपिले तत्र पुरोहडे संयता-ऽविरतिकयोरेकतरस्मिन् 'पूर्वगते' पूर्वमेव प्रविष्टे पश्चादितरत् प्रविशेत् सत्रात्मोभयसमुत्था उपलक्षणत्वात् परसमुत्था वा दोषा भवेयुः । अथ 'तत्रैव' पुरोहडे उपाश्रयस्ततोऽवि-18 रतिकानां निरोधो भवति, साधूनां लज्जया तत्र ताः कायिक्यादिकं कर्तुं न शक्नुवन्तीति भावः । तस्यां च छिण्डिकायामागच्छन्तीषु निर्गच्छन्तीषु वा अविरतिकासु तरुणा दृष्टीः पातयन्ति, ततश्च तेषां ताभिरपहृतहृदयानां खाध्यायहानिर्भवति । यदि 'कर्णाघाटकेन प्रहीष्यन्त्यमा' इति कृत्वा न पठन्ति ततस्तन्निष्पन्नं प्रायश्चित्तम् । अथ पठन्ति ततो लोकस्तेषां खाध्यायशब्द श्रुत्वा ब्रूयात्-अहो! स्त्री-पशु-पण्डकविवर्जितं विविक्तवासमासेवन्ते साधवः । एवमसूवया 20 ब्रुवाणेषु तेषु प्रवचनस्योड्डाहो भवति ॥ २६५४ ॥ अथवा तत्रेमे दोषा भवेयुः
छिंडीऍ अवंगुयाए, उब्भामग-तेणगाण अइगमणं ।
वसहीए वोच्छेदो, उवगरणं राउले दोसा ॥ २६५५॥ संयतै रात्रौ कायिकीव्युत्सर्जनार्थं 'अपावृतायाम्' उद्घाटितायां छिण्डिकायां कस्याप्युड्रामकस्य स्तेनस्य वा 'अतिगमनं' प्रवेशो भवेत् । स स च प्रविश्य किञ्चिदपहरेत् अगारी वा प्रतिसेवेत तन्निप्पन्नं साधूनां प्रायश्चित्तम् । - शय्यातरश्चिन्तयेत्---कुतो फ्ननिरिछद्रे स्तेनका प्रविष्टः ? नूनं संयतेंश्चिण्डिका रात्रावुद्घाटिता । ततोऽसौ प्रद्विष्टो वसतेर्व्यवच्छेदं कुर्यात् । यद्वा स स्तेनकः संयतानां गृहस्थानां वा 'उपकरणं' वस्त्रादिकमपहरेत् ततः सागारिको राजकुले निवेदयेत् , यथा-संयतैरुद्धाटितायां छिण्डिकायां स्तेनकः प्रविष्टः । ततश्च ग्रहणाऽऽकर्षणादयस्त एव दोषाः ।।२६१५॥ अथवा शय्यातरभ्रूणिका केनचिदुन्द्रामकेण सह सम्प्र- 30
१ » एतन्मध्यगतः पाठः कां० प्रतावेव ॥ २ गुल्मादिभिः 'गभी भा० ॥ _ - एतचिह्नगतः पाठः त० डे० मो० ले. नास्ति ॥ ४'गारिणी वा तगोडामवेत् तधि ष्पन्नं भा० । “पविसितुं किंचि हरेज्जा उभामेज वा तगिप्पण" इति चूमौ विशेषणे व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org