________________
७४४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्र [ गाथापतिकुल० सू० ३२ मजणविहिमजंतं , दमु सगारं सईकरणमादी । सिजायरीउ अम्ह वि, एरिसया आसि गेहेसु ॥ २६४९ ॥ तासिं कुचोरु-जघणाइदंसणे खिप्पऽइक्कमो कीवे ।
इत्थीनाइ-सुहीण य, अचियत्तं छेदमाईया ॥ २६५० ॥ 5 मंजन विधिर्नाम-स्नानयोग्या महती प्रक्रिया तया मज्जन्तं सागारिकं तत्र चतुःशालादिगृहमध्ये दृष्ट्या भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायते । शय्यातरीरपि तथैव मजन्तीदृष्ट्वा भुक्तभोमिनामीदृश्योऽस्माकमपि गेहेषु गृहवासे वसतामासन्निति स्मृतिरुत्पद्यते ॥२६४९॥ ___ तथा 'तासां' शय्यातरस्त्रीणां मज्जन्तीनां कुचोरुजघनादिदर्शने 'क्लीवस्य' दृष्टिक्लीवाख्यस्य
'क्षिप्रं' शीघ्रम् 'अतिक्रमः' ब्रह्मव्रतविराधना भवति । ततश्च ये स्त्रीणां ज्ञातयः-मातापितृप्रभृतयः 1 खजना ये च सुहृदः-मित्राणि ते महदप्रीतिकं तद्रव्यान्यद्रव्यव्यवच्छेदं वा कुर्युः, आदिशबदाद् ग्रहणा-ऽऽकर्षणादिप्रत्यपायनिकुरम्बं राजपुरुषैः कारापयेयुः ॥ २६५० ॥ अपि च
आसंकितो व वासो, दुक्खं तरुणा य सनियत्तेउं ।
धंतं पि दुब्बलासो, खुब्भइ वलवाण मज्झम्मि ॥ २६५१॥ तंत्र स्त्रीप्रभृतिप्रत्यपायाशङ्कया सदैवाशङ्कितो वासो भवति । ये च तरुणास्ते शय्यातरीणां 15 मजन्तीनामङ्ग-प्रत्यङ्गनिरीक्षणादेर्दुःखेन 'सन्निवर्तयितुम्' उपरमयितुं शक्यन्ते । तथा "घेतं मिति अत्यन्तमपि दुर्बल:-क्षीणवपुरश्वो वडवानां मध्ये वर्तमानः क्षुभ्यति, एवं तरुणा अत्यन्ततपोनिष्टप्तवपुषोऽपि स्त्रीणां मध्ये तिष्ठन्तः क्षोभमुपगच्छन्तीति ॥ २६५१ ॥ गतं मज्जनद्वारम् । अथ हिरण्यद्वारमाह
तत्थ उ हिरण्णमाई, समंतओ दट्ट विप्पकिमाई।
लोभा हरेज कोई, अन्नेण हिए व संकेजा ॥ २६५२ ॥ 'तत्र' चतुःशालादिगृहमध्ये 'हिरण्यं' रूप्यम् आदिशब्दात् सुवर्ण-मणि-मौक्तिकादि समतत्तो विप्रकीर्णम्-इतस्ततो विक्षिप्तम् आदिशब्दादन्यथा वा मुत्कलं शून्यं च दृष्ट्वा कश्चिद् निर्धर्मा लोभादपहरेत् , अपहृत्य चोत्प्रव्रजेदिति भावः । अन्येन वा केनचिदपहृते स शय्या१यरीसु अम्ह भा० । एतदनुसारेणैव भा० प्रतो टीका, दृश्यतां टिप्पणी ३ ॥
२ मजनं-स्नानं तस्य विधिः-प्रकारः वर्णखचितस्नानपीठोपवेशनादिरूपा महती स्नानयोग्या प्रक्रियेति भावः, तेन मजनविधिना मजन्तं भा० ॥ ३ तरीष्कलङ्कत विभूषितासु दृष्टासु भुक्त° भा० ॥ ४°दर्शने “कीबे" ति षष्ठीसप्तम्योरर्थ प्रत्यभेदात् 'क्ली का० ॥ ५ तत्र आशङ्कित एव वासो भवति, स्त्रीप्रभृतिप्रत्यपायाशङ्कया सदैव तत्र भयाकुलितहृदयैः स्थातव्यमिति भावः। ये च तरुणास्ते यद्यपि तपसा क्षीणवपुषस्तथापि तत्र स्त्रीणां मध्ये दुःखेन 'सन्निवर्तयितुं' तदङ्ग-प्रत्यङ्ग निरीक्षणादेरुपरमयितुं शक्यन्ते । अमुमेवार्थ प्रतिवस्तूपमया द्रढयति-"धंतं पि" इत्यादि । अत्य° भा० ॥ ६ गतं सप्रसङ्गं मज° भा० ॥ ७°र्णादि दृष्ट्वा कश्चि° भा० त० डे० ॥
00
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org