________________
७४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० सू० ३२ भोक्ष्यामहे । अथ ते 'दरभुक्ताः' अर्द्धसमुद्दिष्टास्ततः साधुषु गमनाऽऽगमनं कुर्वाणेषु महदप्रीतिकं कुर्वन्ति । अथाप्रीतिकभयाद भिक्षाया आगता भिक्षां निर्गच्छन्तो वा गृहस्थान् समुद्दिशतः प्रतीक्षन्ते ततः समुद्देश-खाध्यायादीनां भिक्षायाश्च व्याघातो भवति ॥ २६४१ ॥ अथ पृथिव्युदका-ऽमि-बीजा-ऽवहन्नद्वाराणि व्याख्याति
कुड्डाइलिंपणट्ठा, पुढवी दगवारगो य उद्दित्ता।
कयविक्कयसंवहणे, धन्नं तह उक्खल तडे य ॥ २६४२ ॥ कुड्यस्य भूम्या वा लिम्पनार्थं तत्र 'पृथ्वी' मृत्तिका 'दकवारकश्च' पानीयघटः स्थापितो भवेत् तत्र गच्छतामागच्छतां वा पृथिव्यप्कायविराधना । "उद्दित्त" त्ति अमिकायः शीतकाले उद्दीपितो भवेत् तत्रापरिणतादयः प्रतापयेयुः । “धन्नं" ति विभक्तिव्यत्ययाद् । धान्यस्य वा 10 क्रयविक्रयाथ तत्र संवहनं भवेत् तस्य सङ्घट्टनादिनिप्पन्नं प्रायश्चित्तम् । तथा तत्रोदूखलं 'तटे' प्रत्यासन्नप्रदेशे स्थापितं भवेत् , तत्र चाविरतिका बीजकार्य कण्डयन्त्यः शृङ्गारगीतानि गायन्ति, तेषु च श्रूयमाणेषु विश्रोतसिका समुपजायते ॥ २६४२ ॥
_एवं ता पमुहम्मी, जा साला कोद्वतो अलिंदो वा ।
भूमीइ व मालम्मि व, ठियाण मालम्मि सविसेसा ॥ २६४३ ॥ 15 एवं तावत् 'प्रमुखे' गृहद्वारे या शाला वा कोष्ठको वा अलिन्दको वा तत्र दोषा
उक्ताः । एते च शाला-कोष्ठका-ऽलिन्दका भूमौ वा माले वा भवेयुः । तत्र भूमौ तिष्ठतां दोषा भणिताः । अथ मालोपरिवर्तिषु शालादिषु तिष्ठन्ति तत एत एव दोषाः सविशेषा द्रष्टव्याः ॥ २६४३ ॥ तथा च तमेव विशेषं दर्शयति-- __ दुरुहंत ओरुभंते, हिट्ठठियाण अचियत्त रेणू य ।
संकाय संकुडंते, पडणा भत्ते य पाणे य ॥ २६४४ ॥ तस्मिन् माले यदा साधुरारोहति वा अवरोहति वा तदा तस्य ये पादरेणवस्तैरधःस्थितानां गृहस्थानामुपरि प्रपतद्भिस्तेषां महदप्रीतिकमुत्पद्यते । तथा स साधुरारोहन्नवरोहन् वा अधःस्थितानां गृहस्थानाम् 'अपावृतो दर्शनपथं मा गमम्' इति शङ्कया द्वावप्यूरू सङ्कोचयन् वस्त्रं च 25 संयमयन् प्रपतेत् । पतितस्य च पादादिविराधना, भक्तस्य च पानस्य च भूमौ परिगलना भवति ॥ २६४४ ॥ गतं शालाद्वारम् । अथ मध्यद्वारमाह
उधरए वलभीइ व, अंतो अन्नत्थ वा वसंताणं ।।
ते चेव तत्थ दोसा, सविसेसतरा इमे अन्ने ॥ २६४५॥ चतुःशालादिगृहस्य यद् 'अन्तः' मध्यं तत्रापवरके वा वलभिकायां वा 'अन्यत्र वा' अवि30 शेषिते गृहमध्ये वसतां ये शालायां प्रत्यपायादयो दोषा उक्ताः (गा० २६३३ ) त एवात्रापि द्रष्टव्याः, परं सविशेषतराः । ते च विशेषदोषाः 'इमे' अनन्तरमेव वक्ष्यमाणाः ॥२६४५॥
तानेवाह१ एतचिह्नमध्यगतः पाठः का. प्रतावेव दृश्यते ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org