________________
.७४१
भाष्यगाथाः २६३४-४१] प्रथम उद्देशः । पेहुणं-पिच्छं तदेव कलापो यस्य स तथा तम् । यद्वा कस्यापि महाराष्ट्रादिविषयोत्पन्नस्य साधोरङ्गादानं वेण्टकविद्धम् , ततस्तद् दृष्ट्वा ब्रुवते-कथं नु नामासौ साधुर्धर्मं न करिष्यति यस्येयन्तः कर्णा विद्धाः ? ॥ २६३७ ॥ एवं च तैः प्रपञ्चेनोक्ते सति किं भवति ?
अहिगरणं तेहि समं, अज्झोवायो य होइ महिलाणं ।।
तकम्मभाविताणं, कुतूहलं चेव इतरीणं ॥ २६३८ ॥ ___ यः कोपनः साधुः स तैः सममधिकरणं करोति, ततश्चास्थिभङ्गादयो दोषाः । तथा या महेलास्तादृशेन विकुर्विताङ्गादानेन यत् कर्म-प्रतिसेवनं तेन भावितास्तासां तस्मिन् साधावध्युपपातो भवति । इतरासां कुतूहलमुपजायते ॥ २६३८ ॥ अथादर्शद्वारं व्याख्यायते । तान् साधूनपावृतान् प्रतिमास्थितान् दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रवीरन्अदाइय ने वयणं, बच्चामो राउलं सभं वा वि ।
10 गोसे चिय अदाए, पेच्छंताणं सुहं कत्तो ॥ २६३९ ॥ 'आदर्शितम्' आदर्शदर्शनेन पवित्रीभूतं तावदस्माकं वदनम् , अतो बजामो राजकुलं वा सभां वा । यद्वा ते प्रभात एव साधूनां पुतावपावृतौ दृष्ट्वा प्रकुपिताः सन्तो ब्रुवते-अहो ! "गोसे" प्रभात एवादी पश्यतामस्माकमद्य कुतः सुखं भविष्यति ? । एवं तैरुक्ते त एवाधिकरणादयो दोषाः ॥ २६३९ ॥ अथ कल्पस्थद्वारं व्याचष्टे
15 हत्थाईअकमणं, उप्फुसणादी व ओहुए कुजा।
गेलन मरण आसिय, विणास गरिहं दिय निसि वा ॥ २६४०॥ तत्रागमन-निर्गमनपथे चेटरूपाणि भवेयुः तेषां साधुभिरागच्छद्भिर्निर्गच्छद्भिश्च हस्त-पादाद्याक्रमणं भवेत् । अथासौ कल्पस्थः साधुना केनापि 'अवधुतः' उल्लवित इत्यर्थः, ततस्तदीया माता तस्याप्कायेनोत्स्पर्शनम् आदिग्रहणाद् लवणोत्तारणं वा कुर्यात् । यदि वा स कल्पस्थो 20 ग्लानीभवेद्वा म्रियेत वा तदा तदीया माता-पित्रादयः खजना ब्रवीरन् मन्येस्न् वा-तेन श्रमणकेनास्मदीय एष दारकस्तदानीमुल्लवितः तत इत्थं ग्लानत्वं पञ्चत्वं वा प्राप्तवान् । ततः प्रद्विष्टास्ते "आसिय" त्ति शालायाः साधूनां निर्धाटनं कुर्युः । “विणास" ति येन साधुना स कल्पस्थ उल्लवितस्तस्य 'विनाशं' मारणं कुर्युः, यद्वा ते साधवस्तेन शय्यातरेण निष्काशिताः स्तेनश्वापदादिभिर्विनाशमामुयुः । “गरिहं" ति लोकतो गर्हामासादयेयुः-किमेते [5] शोभनैः कर्म-25 भिर्निष्काशिताः ? इति । सर्वमप्येतद् निर्धाटनादिकं दिवा वा निशायां वा कुर्युः । यदि दिवा निष्काशयन्ति तदा चतुर्लघु, रात्रौ निष्काशयन्ति चतुर्गुरु ॥ २६४० ॥ अथ भक्तद्वारमाह---
भोत्तव्वदेसकाले, ओसक्काहिसक्कणं व ते कुजा ।
दरभुत्ते वाचियत्तं, आगय णिते य वाघाओ॥ २६४१ ॥ भोक्तव्यं-भोजनम् , । अविवक्षितकर्मकत्वेन भावे तव्यप्रत्ययस्य समानीतत्वात् , - तस्य 30 देशकाले 'ते' गृहस्था अवष्वष्कणमभिष्वष्कणं वा कुर्युः । तत्रावष्वष्कणं नाम-यावनिर्गच्छन्ति साधवस्तावद् वयं भोजनं कुर्महे, अभिष्वष्कणं-निर्गच्छन्तु तावद् भिक्षार्थ साधवस्ततो ११ एतचिह्नमध्यगतः पाठः कां० प्रतावेव दृश्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org