________________
यनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० सू० ३२ सालाए कम्मकरा, घोडा पेसा य दास गोवाला ।
पेह पवंचुटुंचय, अमहण कलहो य निच्छुमणं ॥ २६३४ ॥ गृहपतेः शालायां ये 'कर्मकराः' भृतकाः, ये च 'घोटाः' चट्टाः, 'प्रेप्याः' प्रेषणयोग्या आज्ञप्तिकरा इत्यर्थः, 'दासाः' गृहजातकाः क्रीता वा, गोपालाः' प्रतीताः । एते शालायां तिष्ठन्तः । 5 शयाना वा 'प्रेक्षा' प्रत्युपेक्षणां कुर्वाणानां साधूनां प्रपञ्चं कुर्वन्ति, तथैव प्रत्युपेक्षन्ते इत्यर्थः । यद्वा प्रपञ्चो नाम-उपहासवचनम् ---अहो! बह्वः प्राणजातीया एतेषु चीवरेषु पतिता इत्यादि । सूत्रार्थपरावर्तनादौ वा 'उड्डञ्चकाः' उद्वेटकास्तान् कुर्वन्ति, आलापकान् कर्णाघाटकेन पठित्वा तथैवोच्चरन्तीत्यर्थः । तत्र कश्चिदसहनः साधुस्तैः कर्मकरादिभिः सह कलहं करोति तत्रास्थिभङ्गादयो दोषाः । स च गृहपतिस्तैः कर्मकरादिभिरुत्तेजितः साधून निष्काशयेत् । 10 निष्काशितानां च वसत्यर्थं पर्यटतां लोको ब्रूयात्-यादृशममीषां चेष्टितं तादृगेवामीषां फलमुपनतमित्यादि ॥ २६३४ ॥ किञ्च
आवासग सज्झाए, पडिलेहण भुंजणे य भासा य ।
उच्चारे पासवणे, गेलन्ने जे भवे दोसा ।। २६३५ ॥ आवश्यकं खाध्यायं प्रतिलेखनां च यदि सागारिकाः पश्यन्तीति कृत्वा न कुर्वन्ति अवि15 धिना वा कुर्वन्ति तदा तन्निप्पन्नं प्रायश्चित्तम् । भोजन-समुद्देशनं तच्च मण्डल्यां तुम्बकेषु वा क्रियमाणं दृष्ट्वा सागारिका जुगुप्सां कुर्युः । “भास" ति संयतभाषाः श्रुत्वा सागारिका गृह्णीयुः । उच्चारं प्रश्रवणं वा क्रियमाणं दृष्ट्वा प्रपञ्चादिकं कुर्वन्ति । अथ तयोनिरोधः क्रियते तत आत्मविराधना । ग्लानो वा कश्चिद् भवेत् स सागारिकेषु पश्यत्सु महत्या दुःखासिकया तिष्ठति, ततस्तस्य या परितापना तन्निष्पन्नं प्रायश्चित्तम् । एवमावश्यकादिषु ये यत्र दोषाः 20 सम्भवन्ति ते तत्र वक्तव्या इति शेषः ॥ २६३५ ॥ तथा---
आहारे नीहारे, भासादोसे य चोदणमचोदे ।
किड्डासु य विकहासु य, वाउलियाणं कओ झाओ ॥ २६३६ ॥ आहारे नीहारे च दोषविभाषा यथाऽनन्तरगाथायाम् । “भासादोसे य" ति ढड्वरभाषाभिर्भाष्यमाणाभिरप्काय-योजन-वणिजादयो दोषाः । “चोदणं" ति यदि साधूनां सामाचारीषु सीदतां 25 नोदना क्रियते तदा सागारिकास्तथैव प्रपञ्चं कुर्युः । “अचोए" ति अनोदयतां तु सामाचारीभङ्गो भवेत् , आज्ञा-ऽनवस्थादयश्च दोषाः । तथा ते कर्मकरादयस्तत्र नानाविधाभिः क्रीडाभिः क्रीडन्ति, स्त्रीकथाप्रभृतिकाश्च विविधाः कथाः कथयन्ति, तासु च यथाक्रमं विलोक्यमानासु श्रूयमाणासु च व्याकुलितानां साधूनां कुतः खाध्यायो भविष्यति ॥ २६३६ ॥
गतं प्रत्यपायद्वारम् । अथ वैक्रियद्वारमपावृतद्वारं चाह30
वंदामि उप्पलजं, अकालपरिसडियपेहुणकलावं ।
धम्मं किह णु न काहिइ, कन्ना जस्सेत्तिया विद्धा ॥ २६३७ ॥ कस्यापि साधोः स्वभावतो विक्रियातो वा सागारिकं त्वचाविरहितं भवेत् , ततस्तदपावृतं दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रुवते-वन्देऽहममुमुत्पलार्य साधुम् , अकाले-अनवसरे परिशटितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org