________________
भाष्यगाथाः २६२७-३३] प्रथम उद्देशः ।
७३९ अथ विस्तरार्थ भाष्यकृत् प्रतिपादयति
मज्झेण तेसि गंतुं, गिही व गच्छंति तेसि मज्झेणं ।
पविसंत निंत दोसा, तहियं वसहीऍ भयणा उ ॥ २६३० ॥ 'तेषाम्' अगारिणां मध्येन गत्वा यत्र प्रविश्यते निर्गम्यते वा, गृहिणो वा 'तेषां' संयतानां मध्येन यत्र गच्छन्ति तत्र न कल्पते वस्तुम् । कुतः ? इत्याह -'तत्र' तादृशे उपाश्रये । संयतानां गृहिणां वा प्रविशतां निर्गच्छतां च दोषा भवन्ति, ते चोपरिष्टादभिधास्यन्ते ( गा० २६४०)। तथा वसतिं प्रविष्टानां संयतानां वसतिविषयाः पूर्वोक्ता दोषास्तत्र भवेयुर्वा न वेत्येवं भजना कार्या- यदि प्रतिबद्धा वसतिस्तदा प्रतिवद्धशय्यासूत्रोक्ता दोषा भवन्ति, अथ न प्रतिबद्धा ततस्ते न भवन्ति ॥ २६३० ॥ अथ मध्यपदं व्याख्यातिसब्भावमसब्भावं, मज्झमसम्भावतो उ पासेणं ।
10 निव्याहिमनिव्वाहि, ओकमइंतेसु सब्भावं ।। २६३१ ॥ मध्यं द्विधा-सद्भावमध्यमसद्भावमध्यं च । तत्र सद्भावमध्यं नाम-यत्र गृहपतिगृहस्य पार्थेन गम्यते आगम्यते वा छिण्डिकयेत्यर्थः, "ओकमइंतेसु" ति गृहस्थानाम् ओकः-गृहं संयताः संयतानां च गृहस्था मध्येन यत्र 'अतियन्ति' प्रविशन्ति उपलक्षणत्वाद् निर्गच्छन्ति वा तदेतदुभयमपि सद्भावतः-परमार्थतो मध्यं सद्भावमध्यम् । तच्च प्रत्येकं द्विधा-निर्वाहि अनिर्वाहि 15 च । तत्र गृहपतिगृहस्य संयतोपाश्रयस्य च यत्र पृथक् फलिहकं तद् निर्वाहि । यत्र पुनस्तयोरेकमेव फलिहकं तदनिर्वाहि ॥२६३१॥ अस्य चतुर्विधस्यापि त्रयः प्रकारा भवन्ति, तद्यथा
साला य मज्झ छिंडी, निग्गंथाणं न कप्पए वासो।
चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा ॥ २६३२॥ शाला १ मध्यं २ छिण्डिका ३ चेति त्रयो भेदाः । एतेषु त्रिष्वपि निम्रन्थानां न कल्पते 20 वासः । अथ वसन्ति ततश्चत्वारोऽनुद्धाता मासा भवन्ति । तत्राप्याज्ञादयो दोषाः ॥ २६३२॥ तत्र शालापदं व्याचिख्यासुः प्रथमतो द्वारगाथामाह
सालाएँ पच्चवाया, वेउब्धियऽवाउडे य अदाए ।
कप्पट्ठ भत्त पुढवी, उदगगणी बीय अवहन्ने ॥ २६३३ ॥ शालायां तिष्ठतां 'प्रत्यपायाः' दोषा वक्तव्याः । तथा वैक्रियेऽपावृते चाङ्गादाने उड्डञ्चकादयो 25 दोषाः । “अदाए" ति साधुमपावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट इत्यमङ्गलं मन्यन्ते । कल्पस्थानि वा तत्र निर्गम-प्रवेशपथे भवेयुः तेषां हस्त-पादाग्रुपघातो भवेत् । तथा भक्तं-भोजनं तत्रावष्व. कणादयो दोषाः । तथा पृथिव्युदकाग्निबीजानां विराधना । “अवहन्ने" ति उदूखलं तत्र बीजकार्य कण्डयन्त्यः स्त्रियः शृङ्गारगीतानि गायेयुः तदाकर्णने विश्रोतसिका समुत्पद्यते इति द्वारगाथासमासार्थः ॥ २६३३ ॥ अथ विस्तरार्थे प्रतिद्वारमभिधित्सुराह१°तस्तद्विषया दोषा न भ° भा० कां० ॥ २ "अधुना नियुक्तिविस्तर:-सब्भाव० गाधा" इति चूर्णौ विशेषचूर्णौ च ॥ ३ साला मज्झे छिंडी ता० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org