________________
७३८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० सू० ३२ विण्मूत्र-श्लेष्माद्यशुचिपङ्किलं 'कुत्सनीयं' जुगुप्सास्पदं स्थानं तानि प्रत्युत स्त्रीणां विरागकराण्येव, कुतः पुनस्तत्र रागोद्भवो भविष्यति ? । अथ पूपलिकाखादकप्रतिबद्धं नावाप्यते ततो यथा निर्ग्रन्थानां कटकचिलिमिलिकादिका यतना भणिता ( गा० २६०५) तथा निर्ग्रन्थीनामपि द्रष्टव्या ॥ २६२६ ॥ अत्र परः प्राह
__ एयारिसम्मि रूवे, सद्दे वा संजईण जइऽणुण्णा।।
समणाण किंनिमित्तं, पडिसेहो एरिसे भणिओ ॥ २६२७ ॥ यदि 'एतादृशे' पूपलिकाखादकसम्बन्धिनि रूपे शब्दे वा संयतीनामनुज्ञा क्रियते तर्हि श्रमणानां किंनिमित्तम् 'ईदृशे' स्थविरस्त्रीसंश्रिते रूपादिप्रतिबद्धे प्रतिषेधो' भणितः ? तेषामपि तत्र वस्तुं युक्तमिति भावः ॥ २६२५ ॥ सूरिराह
मोहोदएण जइ ता, जीवविउत्ते वि इत्थिदेहम्मि ।
दिट्ठा दोसपवित्ती, किं पुण सजिए भवे देहे ॥ २६२८ ॥ यदि तावद् मोहोदयेन जीववियुक्तेऽपि स्त्रीदेहे पुरुषाणां प्रतिसेवनादोषप्रवृत्तिर्दृष्टा तर्हि किं पुनः सजीवे देहे स्थविरायाः सम्बन्धिनि ? तत्र सुतरां भविष्यतीति भावः, अतस्तेषां तत्रापि प्रतिषेधः कृतः । निर्ग्रन्थीनां तु पूपलिकाखादकप्रतिबद्धे खल्प एव दोषः अनिश्रितानां तु महा15 निति तासां तत्र वस्तुमनुज्ञायते ॥ २६२८ ॥
॥ प्रतिबद्धशय्याप्रकृतं समाप्तम् ॥
10
गृ ह प ति कु ल म ध्य वा स प्रकृतम्
सूत्रम्
नो कप्पइ निग्गंथाणं गाहावइकुलस्त मज्झंमज्झेणं 20 गंतुं वत्थए ॥ ३२ ॥ अत्र सम्बन्धगाथामाह
जह चेव य पडिबंधो, निवारिओ सुविहियाण गिहिएसु ।
तेसिं चिय मज्झेणं, गंतूण न कप्पए जोगो ॥ २६२९ ॥ यथैव पूर्वसूत्रे 'गृहिषु' गृहस्थविषयो द्रव्यतो भावतश्च प्रतिबन्धः 'सुविहितानां' साधूनां 25 निवारितस्तथैवात्रापि 'तेषामेव' गृहिणां मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्र वस्तुं न कल्पत इति निवार्यते । एषः 'योगः' सम्बन्धः ॥ २६२९ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां गृहपतिकुलस्य मध्यम्मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्रोपाश्रये वस्तुम् । उपलक्षणमिदम् तेन गृहस्था यत्र संयतोपाश्रयस्य मध्यम्मध्येन निर्गच्छन्ति वा प्रविशन्ति वा तत्रापि न कल्पते वस्तुमिति सूत्रार्थः ॥ १°धो निर्ग्रन्थमूत्रे भणि का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org