________________
७३७
10
भाप्यगाथाः २६१८-२६] प्रश्रम उद्देशः । रूपप्रतिबद्धे, ततः कायिक्या वायुकायस्य वा यो व्युत्सृजतः शब्दो भवति तेन 'सविकारे' सदोपे तस्यैव प्रश्रवणप्रतिवद्धे तिष्ठन्ति ॥ २६२२ ॥ पूपलिकाखादकस्य स्वरूपमाह
नउई-सयाउगो वा, खट्टामल्लो अजंगमो थेरो।
अनेण उद्यविजइ, भोइजइ सो य अन्नेणं ॥ २६२३ ॥ यः स्थविरो नवतिवार्षिको वा शतायुष्को वा-सम्पन्नशतवर्ष इत्यर्थः, 'खट्रामल्लो नाम' 3 प्रबलजराजर्जरितदेहतया यः खटाया उत्थातुं न शक्नोति, अत एवासौ 'अजङ्गमः' गमनक्रियासामर्थ्य विकलः, खवाया अपि चान्येन परिचारकादिनोत्थाप्यते अन्येन चासौ 'भोज्यते' भोजनं कार्यते एप पूपलिकाखादकः ॥ २६२३ ॥ अस्यैव व्युत्पत्तिमाह
पूवलियं खायंतो, चब्बच्चबसद्द सो परं कुणइ।
एरिसओ वा सद्दो, जारिसओ पूवभक्खिस्स ॥ २६२४॥ पूँपलिका 'खादन्' भक्षयन् दन्तानामभावाद् यस्मादसौ ‘परं' केवलं चब्बच्चवाशब्दं करोति सेन पूपलिकाखादकः । यादृशो वा पूपभक्षिणः शब्दो भवति ईदृशो यस्य भाषमाणस्य शब्दः स पूपलिकाखादकः ॥ २६२४ ॥
सो वि य कुटुंतरितो, खाहुत्थूभाउ कुणइ जत्तेणं ।
परिदेवइ किच्छाहि य, अवितकंतो विगयभावो ॥ २६२५ ॥ 15 'सोऽपि च' पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कुड्यान्तरितो वर्तमानः “खाहुदृभाउ' ति काशित-निष्ठीवने ते द्वे अपि 'यत्नेन' कष्टेन करोति, कृच्छ्राच्चासौ परिदेवते' करणतीति भावः, 'अवितर्कमानः' वितर्कमकुर्वन् 'विगतभावः' निरभिसन्धिहृदयः सुप्त-मत्त. मूच्छितादिरिवाव्यक्तचेतनाक इत्यर्थः, ईदृशेन पूपलिकाखादकशब्देन प्रतिबद्धे निर्ग्रन्थीभिः प्रथमं स्थातव्यम् । तदभावे तस्यैव स्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे, ततः प्रश्रवणप्रतिबद्धेऽपि 20 ॥ २६२५ ॥ आह किमत्र पूपलिकाखादकप्रतिबद्धे रागोद्भवो न भवति ? उच्यते
अवि होज विरागकरो, सदो रूवं च तस्स तदवत्थं ।
ठाणं च कुच्छणिजं, किं पुण रागोभवो तम्मि ॥ २६२६ ॥ 'अपि' इत्यभ्युच्चये, 'तस्य' पूपलिकाखादकस्य स्थविरस्य सम्बन्धी यः काशित-परिदेवनादिकः शब्दः, यच्च 'तदवस्थं' तस्यामवस्थायां वर्तमानं वली-पलित-खलत्यादिकं रूपम् , यच्च तस्य 25
१ त० डे० मो० ले० विनाऽन्यत्र-ततः कायिकीप्रतिवद्धे, ततस्तस्यैव व्युत्सृजतो यः सविकारो वायुकायशब्दो भवति तत्रापि तिष्ठन्ति भा० । ततः कायिकी व्युत्सृजतः तस्या एवं कायिक्या का० । “असति तस्सेव रूवपडिबद्धे, असति तस्सेव पासवणपडिबद्धे, सविकारे त्ति बोसिरतो वाउकायसदं करेति ॥"इ
२ पूपलिकां 'खादन्' भक्षयन् शेषभाषणे शक्तिविकलत्वाद् यस्मादसौ'परं' केवलं चबच्चयाशब्दं करोति तेन च शब्देन पूपलिकां खादन् शायते अतः पूपलिकाखादक उच्यते । अथवा यादृशः पूपभक्षिणः शब्दो भवति ईदृशो यस्य स्थविरस्याव्यक्तवर्णविभागः शब्दः स पूपलिकाखादकः ॥२६२४ ॥ कां० ॥
३ “परिदेववि त्ति कणति" इति चूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org