________________
भाष्यगाथाः २६०९-१७] प्रथम उद्देशः ।
उभओ पडिबद्धाए, भयणा पन्नरसिया उ कायव्या ।।
दव्वे पासवणम्मि य, ठाणे रूवे य सद्दे य ॥ २६१४ ॥ 'उभयतः' द्रव्यतो भावतश्च या प्रतिबद्धा वसतिः तस्यां पञ्चदशका 'भजना' भङ्गकरचना कर्त्तव्या । तद्यथा-द्रव्यतः प्रतिबद्धा भावे च प्रश्रवण-स्थान-रूप-शब्दैः प्रतिबद्धा १ द्रव्यतः प्रतिबद्धा भावतश्च प्रश्रवण-स्थान-रूपैः प्रतिबद्धा न शब्देन २ द्रव्यतः प्रतिबद्धा भावतः प्रश्र-5 वण-स्थान-शब्दैः प्रतिबद्धा न रूपेण ३ द्रव्यतः प्रतिबद्धा भावे च प्रश्रवण-स्थानाभ्यां प्रतिबद्धा न रूप-शब्दाभ्याम् ४ एते चत्वारो भङ्गाः स्थानप्रतिबद्धपदेन लब्धाः । एवं स्थानाप्रतिबद्धपदेनापि चत्वारो लभ्यन्ते जाता अष्टौ भङ्गाः । एते प्रश्रवणप्रतिबद्धपदेन लब्धाः, एवं प्रश्रवणाप्रतिबद्धपदेनाप्यष्टौ लभ्यन्ते, जाताः षोडश भङ्गाः ॥ २६१४ ॥
अत्र च पोडशो भङ्गः 'द्रव्यतः प्रतिबद्धा न पुनः प्रश्रवणादिभिः' इत्येवंलक्षणो नाधिक्रियते, 10 उभयतः प्रतिबद्धाया अधिकारात्, अत्र च भङ्गे भावतः प्रतिबद्धाया अभावात् । ततो ये आद्याः पञ्चदश भङ्गकास्तेषु तिष्ठतो दोषानाह
उभओ पडिबद्धाए, ठायंते आणमाइणो दोसा।
ते चेव पुव्वभणिया, तं चेव य होइ बिइयपयं ॥ २६१५॥ उभयतः प्रतिबद्धायां वसतौ तिष्ठत आज्ञादयो दोषाः । ये च प्रथमद्वितीयभङ्गयोः पूर्वम-15 धिकरणादय आत्मपरोभयसमुत्थादयश्च दोषा भणितास्त एवात्रापि समुदिता वक्तव्याः । यच्च प्रथम द्वितीयभङ्गयोद्वितीयपदमुक्तं तदेवात्रापि ज्ञातव्यम् । गतस्तृतीयो भङ्गः । चतुर्थस्तु भङ्गो न द्रव्यतः प्रतिबद्धा नापि भावत इत्येवंलक्षणः स चोभयथाऽपि निर्दोष इति न काचित् तदीया विचारणा ॥ २६१५ ॥ सूत्रम् -
कप्पइ निग्गंथीणं पडिवद्धसिज्जाए वत्थए ३१॥ 20 अत्र भाष्यम्
एसेव कमो नियमा, निग्गंथीणं पि नवरि चउलहुगा ।
सुत्तनिवाओ निदोसे, पडिबद्धे असइ उ सदोसे ॥ २६१६ ॥ 'एष एव क्रमः' द्रव्यभावोभयतःप्रतिबद्धव्याख्यापरिपाटिरूपो नियमाद् निर्ग्रन्थीनामपि वक्तव्यः । नवरं प्रतिबद्धे तिष्ठन्तीनां तासां चतुर्लघुकाः । नोदकः प्राह—यद्येवं तर्हि सूत्रं 25 निरर्थकम् , 1 तंत्र निर्ग्रन्थीनामवस्थानस्यानुज्ञातत्वात् । » आचार्यः प्राह-सूत्रनिपातो निर्दोषप्रतिबद्धे प्रतिश्रये भवति, प्रायश्चित्तं तु सदोषप्रतिबद्धे द्रष्टव्यम् । अथ निर्दोषप्रतिबद्धो न प्राप्यते ततस्तस्य 'असति' अभावे सदोषप्रतिबद्धे स्थातव्यम् ॥ २६१६ ॥
आउज्जोवणमादी, दवम्मि तहेव संजईणं पि।
नाणत्तं पुण इत्थी, नऽचासन्न न दूरे य ॥ २६१७॥ द्रव्यप्रतिबद्धे संयतीनामप्यप्काय-शकटयोजनादयो दोषास्तथैव भवन्ति, परं तासां सागा१ND एतन्मध्यगतः पाठः कां० प्रतावेव वर्तते ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org