SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ७३४ उद्दाण परिविया, पउत्थ कन्ना सभोइया चैव । थेरी मज्झिम तरुणी, तिव्वकरी मंदसद्दा य ॥ २६०९ ॥ कन्याशब्दो बन्धानुलोम्याद् मध्येऽभिहितोऽप्यादौ कर्त्तव्यः, ततः पूर्वं 'कन्यायाम्' अपरिणीतस्त्रियाम्, तदभावेऽपद्राणभर्तृकायाम्, ततः 'भर्तृपरिष्ठापितायां' दौर्भाग्यात् पतिना परित्य - 5 क्तायाम्, तदलाभे प्रोषितभर्तृकायां स्थविरायां स्थातव्यम् । तदप्राप्ता वेताखेव प्रथमं मध्यमासु, ततस्तरुणीषु, ततः सभोक्तृका - खाधीनभर्तृका तस्यामपि स्थविरादिक्रमेण स्थेयम् । नवरं सा तीव्रशब्दकरी मन्दशब्दा चशब्दाद् मध्यमशब्दा चेति त्रिविधा । तत्र पूर्वं मन्दशब्दायां ततो मध्यमशब्दायां ततस्तीत्रशब्दायामपि स्थातव्यम् ॥ २६०९ ॥ "सद्द वए चेव तिविह" ( गा० २६०८ ) त्ति व्याख्यानयति 10 थे मज्झिम तरुणी, वरण तिविहित्थि तत्थ एक्केका । तिव्वकरी मज्झकरी, मंदकरी चैव सद्देण ।। २६१० ॥ स्थविरा मध्यमा तरुणी चेति वयसा त्रिविधा स्त्री । तत्रैकैका त्रिविधा— तीत्रशब्दकरी मध्यमशब्दकरी मन्दशब्दकरी चेति शब्देन त्रिविधा || २६१० ॥ अथ प्रश्रवणप्रतिबद्धादिषु चतुर्ष्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता तामेव निर्मुक्तिकृदेकगाथया सङ्गृह्याहपासवण मत्तणं, ठाणे अन्नत्थ चिलिमिली रूवे । सज्झाए झाणे वा, आवरणे सद्दकरणे वा ।। २६११ ॥ कायिकी प्रतिबद्धे प्रतिश्रये प्रश्रवणं मात्रकेण परिष्ठापयितव्यम् । स्थानप्रतिबद्धेऽन्यत्र गत्वा स्थातव्यम् । रूपप्रतिबद्धे चिलिमिली दातव्या । शब्दप्रतिबद्धे खाध्यायो ध्यानं वा 'आवरणं वा' कर्णयोः स्थगनं विधेयम् । तथापि शब्दे श्रूयमाणे ' शब्दकरणं' तथा शब्दः कर्त्तव्यो यथा 20 तयोर्लज्जितयोर्मोह उपशाम्यति ॥ २६११ ॥ अथास्या एव पश्चार्द्ध व्याचष्टे 4 वेगकरंजं वा विपरिजियं बाहिरं व इअरं वा । सो तं गुणेइ साहू, झाणसलद्धी उझाएजा ।। २६१२ ॥ ‘वैराग्यकरम्' उत्तराध्ययनादि, यद् वाऽपि 'परिजितं ' स्वभ्यस्तं परावर्त्त्यमानमस्खलितमागच्छतीति भावः, तच्च ‘अङ्गबाह्यं वा' प्रज्ञापनादि 'इतरद्वा' अङ्गप्रविष्टमाचारादि यद् यस्य 25 साधोरागच्छति स तत् सूत्रं तथा गुणयति यथा परिचारणाशब्दो न श्रूयते । यस्तु ध्यानसलब्धिः ' ध्यानलब्धिसम्पन्नः स ध्यानं ध्यायति ॥ २६१२ ॥ दो वि अलद्धि कण्णे, ठएइ तह वि सवणे करे सदं । जह लज्जियाण मोहो, नास जणनायकरणं वा ।। २६१३ ॥ 'द्वयोरपि' स्वाध्याय-ध्यानयोर्यः साधुरलब्धिकः स कर्णौ स्थगयति । तथापि शब्दश्रवणे 30 शब्द तथा कुर्यात् यथा तयोर्लज्जितयोमोंहो नश्यति, यथा - किमेवं भोः ! न पश्यसि त्वमसमानत्र स्थितान् यदेवं लज्जनीयानि चेष्टितानि कुरुषे । यद्येवमप्युक्तो न तिष्ठति ततो जनज्ञातं कुर्वन्ति, यथा— पश्यत पश्यत भो इन्द्रदत्त ! यज्ञदत्त ! सोमशर्मन् ! अयं विगुप्त इत्थमस्माकं पुरतोऽनाचारं सेवते ॥ २६१३ ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह - For Private & Personal Use Only 15 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रतिबद्धशय्याप्र० सू० ३० Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy