________________
भाग्यगाथाः २६०२-८] प्रथम उद्देशः ।
भूसण-भासासदे, सज्झाय ज्झाण निच्चमुवओगो।
उबगरणेण सयं वा, पेल्लण अन्नत्थ वा ठाणे ॥ २६०७ ।। प्रथमं भूषणशब्दप्रतिवद्धे तदभावे भाषाशब्दप्रतिबद्धेऽपि तिष्ठन्ति । तत्र चोभयत्रापि महता शब्देन समुदिताः सन्तः स्वाध्यायं कुर्वन्ति, ध्यानलब्धिमन्तो वा 'ध्यान' धर्म-शुक्लभेदभिन्नं ध्यायन्ति, एतयोरेव स्वाध्याय-ध्यानयोर्नित्यमुपयोगः कर्त्तव्यः । भूषण-भाषाशब्दप्रतिबद्धा- 5 भावे स्थानप्रतिबद्धे तिष्ठन्ति । तत्रोपकरणेन स्वयं वा विप्रकीर्णाः सन्तस्तथा मालयन्ति यथा तासां प्रेरणं भवति, अवकाशो न भवतीति भावः । अन्यत्र वा स्थाने गत्वा दिवसे तिष्ठन्ति ॥ २६०७ ॥ स्थानप्रतिवद्धस्याभावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति । व तंत्र तिष्ठतां यतनां क्रम
च दर्शयति
परियारसद्दजयणा, सद्द वए चेव तिविह तिविहा य । 10
उद्दाण-पउत्थ-सहीणभोइया जा जस्स वा गुरुगी ॥२६०८ ॥ पुरुषेण स्त्री परिभुज्यमाना यं शब्दं करोति स परिचारशब्द उच्यते, तत्र 'यतना' स्वाध्यायगुणनादिका कर्त्तव्या। 'सद्द वए चेव तिविह" त्ति शव्दतो वयसा च सा स्त्री त्रिविधा, तद्यथामन्दशब्दा मध्यमशब्दा तीनशब्दा च, वयसा तु स्थविरा मध्यमा तरुणी चेति त्रिविधा । "तिविहा य" ति पुनरेकैका त्रिविधा-अपद्राणभर्तृका प्रोषितभर्तृका स्वाधीनभोक्तका चेति। 15 एवं भेदेपु विरचितेषु यतनाक्रम उच्यते-तत्र पूर्वमपद्राणभर्तृकायां स्थंविरायां मन्दशब्दायां स्थातव्यम् , ततः प्रोषितभर्तृकायां स्थविरायां मन्दशब्दायाम् , तदभावेऽपद्राणभर्तृकायां स्थविरायां मध्यशब्दायाम् , तदसम्भवे प्रोषितभर्तृकायां स्थविरायां मध्यमशब्दायाम् , तदलाभेऽपद्राणभर्तृकायां स्थविरायां तीव्रशब्दायाम् , तदप्राप्तौ प्रोषितभर्तृकायां स्थविरायां तीव्रशब्दायां स्थातव्यम् । एवमेव मध्यमासु तरुणीषु च अपद्राण-प्रोषितभर्तृकासु क्रमो द्रष्टव्यः । ततः स्वाधीनभ- 20 र्तृकायामपि प्रथम स्थविरायां ततो मध्यमायां ततस्तरुण्यां यथाक्रमं मन्द-मध्यम-तीव्रशब्दायां स्थातव्यम् । अथवा "जा जम्स गुरुगि" ति यस्य साधोर्यो मन्दादिकः शब्दो रोचते तेन या युक्ता सा तस्य गुरुरागहेतुत्वाद् गुरुका, तेन च सर्वप्रयत्नेन तया गुरुकस्त्रिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः ।। २६०८ ॥ अथवाऽयमपरः क्रम उच्यते११ एतदन्तर्गतः पाठः का० पुस्तक एव ॥ २ “परियार० गाहा पोराणा" इति विशेषचूर्णौ ॥
३ भा० विनाऽन्यत्र-ति । अथैतासु तिष्ठतामयं क्रमः-पूर्व कां० । ति । तत्र पूर्व त. डे० मो. ले०॥
४ स्थविरायां स्थातव्यम्, तदसम्भवे प्रोषितभर्तृकायां स्थविरायाम्, तदप्रातावप. द्राण-प्रोषितभर्तृकयोरेव प्रथममध्यमयोः, ततस्तरुण्योरपि क्रमेण स्थातव्यम् । ततः स्वाधीनभर्तृकायां स्थविरायां मन्दशब्दायाम्, ततस्तस्यामेव मध्यमशब्दायाम्, ततस्तीव. शब्दायाम् , तदभावे मध्यम-तरुण्योरपि यथाक्रमं मन्द-मध्यम-तीव्रशब्दयोः स्थातव्यम् । अथवा "जा जस्स भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org